वाचस्पत्यम्
वेणी is an alternate of वेणि. वेणि(णी) || स्त्री वेण—इन् वा ङीप् । १ केशरचनाभेदे अमरः २ जलसमूहे जटा० । ३ तत्प्रवाहे हेमच० । ४ देवताडवृक्षे अमरः । ५ नदीभेदे तदुत्पत्तिकथा पद्मोत्तर० १५६ अ० । ६ गङ्गायमुनासरस्वतीमेलनस्थाने च । प्रयागशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वेणी || स्त्री (वेणि + वा ङीष् ।)
प्रवेणी । चुलेर विउणी इति भाषा । इति भरतः ॥ तत्पर्य्यायो वेणिशब्दे द्रष्टव्यः । (यथा, कुमारे । २ । ६१ । “तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरवन्दीनां वेणीर्वीर्य्यविभूतिभिः ॥”)
देवताडवृक्षः । इत्यमरः ॥ मेषी । प्रवाहः । इति हेमचन्द्रः ॥ नदीविशेषः । इति मेदिनी ॥ तस्या उत्पत्तिर्यथा, — पृथुरुवाच । “कृष्णावेण्योस्तटाद्यस्माच्छिवविष्णुगणैः पुरा । बणिक्शरीरात् कलहा निरस्ता कथिता त्वया ॥ प्रभावस्तु तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा । तन्मे कथय सर्व्वज्ञ ! विस्मयोऽत्र महान् मम ॥ नारद उवाच । कृष्णा कृष्णतनुः साक्षाद्बेणी साक्षान्महेश्वरः । तत्सङ्गमप्रभावन्तु नालं वक्तुं चतुर्म्मुखः ॥ तथापि तत्समुत्पत्तिं कीर्त्तयिष्यामि ते शृणु । चाक्षुषस्यान्तरे पूर्ब्बं मनोर्देवपितामहः ॥ स ह्यद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् । स कृत्वा यज्ञसम्भारान् सर्व्वदेवगणैर्व्वृतः ॥ युक्ता हरिहराभ्यां हि तद्गिरेः शिखरं ययौ । भृग्वादयो मुनिगणा मुहूर्त्ते ब्रह्मदैवते ॥ तस्य दीक्षाविधानाय समाजं चक्रुरादृताः । अथ ज्येष्ठां स्वरां पत्नीमाहूयाञ्चक्रुरीश्वराः ॥ सा शनैराययौ तावत् भृगुर्विष्णुमुवाच ह ॥ भृगुरुवाच । विष्णो स्वरा त्वयाहूता साप्यायाति न हि त्वरम् । मुहूर्त्तातिक्रमे चैव कार्य्यो दीक्षाविधिः कथम् ॥ विष्णुरुवाच । नायाति चेत् स्वरा शीघ्रं गायत्त्र्यत्र विधीयताम् । एषापि न भवेदस्य भार्य्या किं पुण्यकर्म्मणि ॥ नारद उवाच । एवमेव हि रुद्रोऽपि विष्णुवाक्यममन्यत । तच्छ्रुत्वा स भृगुर्व्वाक्यं गायत्त्रीं ब्रह्मणस्तदा ॥ निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् । यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्मु नीश्वराः ॥ तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप । ततस्तां दीक्षितां दृष्ट्वा गायत्त्रीं ब्रह्मणा सह । सपत्नी सा परा क्रोधात् स्वरा वचनमब्रवीत् ॥ स्वरोवाच । अपूज्या यत्र पूज्यन्ते पूज्यानाञ्च व्यतिक्रमः । त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥ मदासने कनिष्ठेयं भवद्भिः सन्निवेशिता । तस्मात् सर्व्वे जडीभूता नदीरूपा हि निश्चितम् ॥ इयञ्च दक्षिणे भागे ह्युपविष्टा मदासने । तस्माल्लोके सदादृश्या तनुरूपास्तु निम्नगा ॥ नारद उवाच । ततस्तच्छापमाकर्ण्य गायत्त्री कम्पिताधरा । समुत्थायाशपद्देवैर्वार्य्यमाणापि तां स्वराम् ॥ गायत्त्र्युवाच । तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु । वृथा शपसि यस्मान्मां भव त्वमपि निम्नगा ॥ नारद उवाच । ततो हाहाकृताः सर्व्वे शिवविष्णुमुखेश्वराः । प्रणम्य दण्डवत् भूमौ स्वरां तत्र विजिज्ञपुः ॥ देवा ऊचुः । देवि शप्ता वयं सर्व्वे ब्रह्माद्याश्च त्वयाधुना । यदि सर्व्वे जडीभूता भविष्यामोऽत्र निम्नगाः ॥ तदा लोकत्रयं चैतत् विनश्यति च निश्चितम् । अविवेककृतस्तस्मात् शापोऽयं विनिवर्त्तताम् ॥ स्वरोवाच । नार्च्चितो हि गणाध्यक्षो भवद्भिर्यत् सुरोत्तमाः । तस्माद्विघ्नं समुत्पन्नमबोधजनितं खलु ॥ नापि मद्वचनं ह्येतदसत्यं खलु जायते । तस्मात् स्वांशैर्जडीभूता यूयं भवत निम्नगाः ॥ आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे । भविष्यावोऽत्र भो देवाः पश्चिमाभिमुखावहे ॥ नारद उवाच । इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः । जडरूपाभवन्नद्यः स्वांशेनैव तदा नृप । तस्माद्विष्णुरभूत् कृष्णा वेणी देवो महेश्वरः ॥ ब्रह्मा ककुद्मिनी चान्या पृथगेव बभूव तु ॥” इति पाद्मोत्तरखण्डे १५६ अध्यायः ॥ अन्यच्च । “सरस्वती रजोरूपा तमोरूपा कलिङ्गजा । सत्त्वरूपा च गङ्गात्र नयन्ति ब्रह्मनिर्गुणम् ॥ इयं वेणी हि निःश्रेणी ब्रह्मवर्त्म प्रयास्यतः । जन्तोर्व्विशुद्धदेहस्य श्रद्धा श्रद्धाप्लुतस्य च ॥ काशीति काचिदबला भुवनेषु रूढा लोलार्ककेशवविलोलविलोचना च । तद्दीर्यु गञ्च वरणासिरियं तदीया वेणीति यात्र गदिताक्षयशर्म्मभूमिः ॥” इति काशीखण्डे ७ अध्यायः ॥