वाचस्पत्यम्
वेद || पु० विद—अच् घञ् वा । १ विष्णौ विष्णुसं० । २ ज्ञाने ३ शास्त्रज्ञाने तत्साधने धर्मब्रह्मप्रतिपादके मन्त्रब्रह्मा० णत्मिके ग्रन्तह्भेदे ४ शास्त्रोक्ते चरित्रे च मेदि० । ५ यज्ञाङ्गे नानार्थमा० ६ कुशमुष्टिकृते पदार्थभेदे “वेदं कृत्वा वेदिं कुर्य्यात्” श्रुतिः येदयति विद—अच् णिच्—अच् विद—अच् वा । ७ ज्ञापके ८ ज्ञारि च त्रि० “वेदोऽसि येन त्वं देव! वेद देवेभ्यो वेदोऽभवस्तेन मह्यं येदो भूयाः” यजु० २ । २१ “पत्नी वेदं प्रमुञ्चति वेदोऽसीति “हे कुशमुष्टिनि- र्मितपदार्थ! त्वं वेदोऽसि ऋगाद्यात्मकोऽसि यद्वा वेत्तीति वेदः ज्ञातासि । देवेभ्यो देवानां वेदोऽभवः ज्ञापकोऽभूः” कर्क० । तल्लक्षणञ्च अपौरुषं वाक्यं वेद इति मीमांसकाः । पौरुषेयत्वे पूर्वपक्षं दूषयित्वा- ऽपौरुषेयत्वं माधवेनोपन्यस्य समर्थितं यथा “सम- यबलेन सम्यक्परोक्षानुभसाधनं वेद इति” वेदलक्षणस्य मन्वादिस्मृत्यादावतिव्याप्तिमाशङ्क्य “अपौरुषेषत्वे सतीति विशेषणाददोष इति चेत् वेदस्यापि परमेश्वर- निर्मितत्वेन पौरुषेयत्वात् शरीरधारिजीवनिर्मित- त्वाभावादपौरुनेयत्वमिति चेत् “सहस्रशीर्षा पुरुषः” इत्यादिश्रुतिभिरीश्वरस्यापि शरीरित्वात् । कर्मफलरूपश- रीरधारिजीवनिर्मितत्वाभावमात्रेणापौरुषेत्वं विवक्षि- तमिति चेत् न जीवविशेषैरग्निबाय्वादित्यैर्वेदानामुत्पा- दितत्वात् । “ऋग्धेद एवाग्नेरुजायत, यजुर्वेदो वायोः, सामवेद आदित्यादिति श्रुतेः” (ईश्वरस्याग्न्यादिप्रेरकत्वेन निर्मातृत्वं द्रष्टव्यम्) । ततः मन्त्रब्राह्मणात्मकत्वं वेद- लक्षणमुक्त्वा “मन्त्रब्राह्मणयोर्वेदनामधेयम्” इत्यापस्तम्बव- चनं प्रमाणतयोपन्यस्तं ततश्च मन्त्रलक्षणमुक्त्वा तदितरत् ब्राह्मणमित्युक्तम् । तत्रैवोत्तरत्र नन्वेवमपि वेदस्य पौ- रुषेयत्वेन विप्रलम्भकवाक्यवदप्रामाण्यं स्यात् पौरु- षेयत्वं च १ पादे पूर्वपक्षत्वेन जैमिनिरसूत्रयत् यथा “वेदांश्चैके सन्निकर्षं पुरुषाख्येति” सू० “एके वादिनो वेदान् प्रति सन्निकर्षं मन्थन्ते । यथा रघुवंशादयः का- लिदासप्रणीता इदानीन्तनास्तथा वेदोऽपि न तु वेदा अनादयः अतएव वेदकर्त्तृत्वेन पुरुषा आख्यायन्ते वैया- सिकं भारतं बाल्मीकीयं रामायणमित्यत्र यथा भारतादिकर्तृत्वेन व्यासादय आख्यायन्ते तथा काठकं कौथुमं तैत्तिरीयमित्येवं तत्तद्वेदशास्याकर्तृत्वेन कम- दीनामाख्यातत्वात् वेदाः पौरुषेयाः । ननु नित्यानामेव सतां वेदानामुपाध्यायसम्प्रदायप्रवर्त्तकत्वेन कठकादि- समाख्या स्यादित्याशङ्क्य युक्त्यन्तरं सूत्रयति अनित्य- दर्शनाच्चेति” सू० अनित्याजननमरणवन्तो ववंरादयो वेदार्थाः श्रूयन्ते “ववरः प्रावहणिरकामयत” कुसुजविन्दु औद्धालकिरकामयतेति” तथा सति वयरादिभ्यः पूर्वम- भावादनित्यावेदाः । विमतं वेदवाक्यं पौरुषेयं वाक्य- त्वात् कालिदासादिवाक्यवत् इत्यनुमानसूचकश्चकारः” इति पूर्वपक्षे सिद्धान्तयति । “उक्तं तु शब्दपूर्वत्वम्” सू० “तुशब्दो वेदानामनित्यत्वं वारयति । शब्दस्य वेदरूपस्य कठादिपुरुषेभ्यः पूर्वत्वमनादित्वम् प्राचीनैश्च सूत्रैरुक्तम् । “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इत्यत्र औत्पत्तिकश- ब्देन सर्वेषां शब्दानां वेदानां तदर्थानां तदुभयसम्बन्धान च नित्यत्वं प्रतिज्ञाय उत्तराभ्यां शब्दाधिकरणवाक्या- धिकरणाभ्यामुपपादितम । का तर्हि काठकाद्याख्याया गतिरित्याशङ्क्य संप्रदायप्रवर्त्तनात् सेयमुपपद्यते” इत्युत्तर- सूत्रयति “आख्याः प्रवचनादिति” सू० “अस्त्वियमाख्य- यिकायागतिः (इयं प्रवचनरूपा संप्रदायप्रवर्त्तनेत्यर्थः”) पवराद्यनित्यदर्शनं यदुक्तं तस्य किमित्युत्तरमित्याशङ्काया- माह “परं तु श्रुतिसामान्यमात्रम्” सू० यत्परं वव- रादिकं तत् तच्छब्दसामान्यमेव । न तु मनुष्यो ववर- नामकोऽत्र विवक्षितः ववरध्वनियुक्तप्रवहणस्त्रभावस्य वायोरत्र वक्तुंशक्यत्वात् । पूर्वपक्षोक्तस्य वाक्यत्व हेतोः पराहतेः । तस्मान्नास्ति वेदस्य पौरुषेयत्वम् । अत्र संग्राहकश्लोकौ “पौरुषेयं न वा तेदवाक्यं स्यात् पौरुषेयता । काठकादिसमाख्यानात् वाक्यत्वाच्चान्यवाक्य- वत् । समाख्यानं प्रवचनात् वाक्यत्वं तु पराहतम् । तत्कर्त्मनुपलम्भेन स्यात्ततोऽपौरुषेयता” । ननु भगवता वादरायणेन वेदस्य ब्रह्मकार्य्यत्वं सूत्रितं “शास्त्रयोनि- त्वादिति” । ऋग्वेदादिशास्त्रकारणत्वात् ब्रह्म सर्वज्ञमिति सूत्रार्थः (तदेतस्य महाभूतस्य निःश्वसितं यदृग्वेदोयजु- र्वेद इत्यादि” श्रुतिः “अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा” स्मृतिश्चात्र मूलम्) वाढं नैतावता पौरु- षेयत्वं भवति मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषे- यत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवस्रित्यत्वं वादरा- यणेनैव देवताधिकरणे सूत्रितम् “अतएव च नित्यत्व- मिति” । वेदा० प० पौरुषेयत्वापौरुषेयत्वे अन्यथा नि- रुक्ते “यथा ननु क्षणिकत्वाभावेऽपि वियदादिवदादिमत्त्वेन परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव सिद्धान्तोभज्येतेति चेन्न न तावत्पुरुषेणोकार्य्यमाणत्वं पौरुषेयत्वं गुरुमतेऽपि पौरुषेतत्वापत्तेः (पाठ्यमान वेदानामिति शेषः) नापि पुरुषाधीनोत्पत्तिमत्त्वं पौरु- षेयत्वं नैयायिकामिमतपौरुषेयत्वानुमानेऽस्मादादीनां सिद्धसाधनापत्तेः किन्तु सजातीयोच्चारणानपेक्षोच्चारण- विषयत्वं तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्ध वेदसमानुपूर्वीकं वेदं विरचितवान् न तु तद्विजा- तीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणषिषयत्वं पौरुषेयत्वं वेदस्य, भारतादीनान्तु सजातीयोच्चारणमन- पेक्ष्यैवोच्चारणमितितेषां पौरुषेयत्वम्” । शब्दचिन्तामणि- कृता तु वेदलक्षणमन्यथा निरुच्य पौरुषेषत्वमीदृशमेव स- मर्थितं यथा “अथ येदः पौरुषेयो वाक्यत्वात् भारतादि- वत् इति चेत् कोवेद अनुगतधर्माभावेन तस्य शाखासु नानार्थत्वात् तथा हि न मुख्यवेदप्रयोगविषयो येदः मुख्या- र्थाकथनात् नापि शाखासमुदायः तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेः । नापि स्वर्ग- कामो यजेतेत्यादिवाक्यं स्मृतिभारतादेरपि तथात्वात्” इत्यादिवेदलक्षणे पूर्वपक्षमुक्त्वा पौरुषेयत्वसाध्ये तमाह “पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा अध्यापकाध्येतृधीजन्यत्वेन सिद्धसाधनात् स्वतन्त्रपुरुष- प्रणीतजातीयत्वं यदि साध्यं तदाद्यभारते स्मृतौ च वाक्यत्वमनैकान्तिकम्” इत्यादिना । अत्रोत्तरमुक्तं यथा “शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थ- कत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वे- दत्वम् । ईश्वरप्रमाया अजन्यत्वात् वेदार्घस्यानुमानविष- यत्वेऽप्यनुमानादेर्वेदोपजीवकतया स्मृतीनां भारतादि- भागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् वेदादर्थं प्रतीत्यैव तत्प्रणयनात्” (अग्निर्हिमस्य भेष- जमित्यादिवेदवाक्यसंग्रहाय सत्यन्तं लक्षणाप्रविष्टं सत्यन्तं तु अदृष्टार्थकताबाहुल्यज्ञापनार्थमिति वोध्यम्) । मथुरानाथेनैतद्विवृतं तत्र दृश्यम् । साध्यं च पौरुषेयत्वं सजातीतोच्चारणानपेक्षोच्चरितजातीयत्वमिति निर्णीतम- धिकं तत्र दृश्यम् । येदाश्च चत्वारः तेषां शाखाविभागश्चरणव्यूहे उक्तः तत्र ऋग्वेदशाखाविभागः ऋग्वेदशब्दे १४११ पृ० दर्शितः । “यजुर्वेदस्य मडशीतिर्भेदा भवन्ति । तत्र चरकार्णा द्वादश भेदा भवन्ति । चरकाः १ आह्वरका २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्यवाः ६ आष्टककठाः ७ चारायणीयाः ८ पारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेता- श्वतराः ११ (श्वेताश्वेततरा इति वा पाठः) । मैत्राय- णीयाः १२ श्चेति । तत्र मैत्रायणीयानां सप्त मेदा म- वन्ति । मानवाः १ दन्दुभाः २ चैवेयाः ३ वाराहाः ४ हा- रिद्रवेयाः ५ श्यामाः ६ श्यामारणीया ७ श्चेति । तेषा- मध्ययनम् अष्टौ यजुःसहस्राण्यधीत्य शाखापारो भ- वति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । ता- न्येव त्रिगुणान्यधोत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा १ कल्पो २ व्याकरणं ३ निरुक्तं ४ छन्दो ५ ज्योतिष ६ मित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेयानां सप्तदश भेदा भवन्ति । जाबालाः १ औधेषाः २ काण्वाः ३ माध्य- न्दिनाः ४ शातातपीयाः ५ तापायनीयाः ६ कापालाः ७ पौ- ण्ड्रवत्साः ८ आपटिकाः ९ पामावटिकाः १० (परमाव- टिकापि पाठः) । पाराशरीयाः ११ वैनेयाः १३ औ- थेयाः १४ गालवाः १५ वैजवापाः १६ कात्यायनीयाश्च १७ । प्रतिपदमनुपदं छन्दो भाषा धर्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि । उपज्योतिषम् । साङ्गलक्षणम् । प्रति- ज्ञानवाक्यम । परिसख्याचरणम् । श्राद्धकल्पः । प्रव- राध्यायश्च । शस्त्रम् । क्रतुः । संख्यानः । आगमः । यज्ञपार्श्व्हः होत्रकम् । (पारष्यानुहोत्रकमपि पाठः) । पशवः । उक्थानि । कूर्मलक्षणमित्यष्टादश- परिशिष्टानि । द्वे सहस्रे शते न्यूने मन्त्रे वाजसने- यके । इत्युक्त परिसंख्यातमेतत् सकलं शुक्रियम् । ग्रन्धाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम् । आदा- वारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्वकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत्” । तत्र तैत्तिरीयकाणां द्विभेदा भवन्ति । ओक्ष्याः १ (खमध्योऽपि पाठः) । खाण्डिया- श्चेति २ । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति । आ- पस्तम्बी १ पौधायनी २ सत्याषाढी ३ हिरण्यकेशी ४ औ- धेयाश्चेति ५ (ओधेयी च पाठः) । तत्र कठानान्तूपगान- विशषाः । चमुश्चत्वारिंशत्युपग्रन्थाः । मन्त्रब्राह्मण- योर्वदृस्त्रिवणी यस्म पठ्यते । यजुर्वेदः स विज्ञेयः शेषाः साखान्तराः स्मृता” । सामवेदस्य किल सहस्रभेद आसीत्। अमध्या- येष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः। तेषां प्रवक्ष्याम्यासुरायणीया वासुरणीया वार्त्तान्सवेयाः प्राञ्जला ऋग्वर्णभेदः प्राचीनयोग्या ज्ञानयोग्या राणायनीश्चति तत्र राणायनीयानां नव भेदाः भ- वन्ति। राणायनीयाः शाठ्यानीयाः पारायाणीयाः सात्वलाः। (सत्वमुद्भवा इति वा पाठः)। मौद्गलाः (इति तु भाष्ये नास्ति)। खल्वलाः। महाखल्वलाः लाङ्गलाः । कौथुमाः जैमिनीयाश्चेति । तेषामध्ययनम् अष्टौ सामसहस्राणि सामानि च चतुर्दश अष्टौ शतानि दशेति दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्य । एतत् सामगणं स्मृतम् । अथर्थवेदस्य नव भेदा भवन्ति । पैप्पलाः १ । दान्ताः २ । प्रदान्ताः ३ । स्नाताः ४ । स्नौता । ५ । ब्रह्मदाबलाः ६ । शौनकी ७ देवदर्शती ८ । चरण- विद्या ९ श्चेति । (दाता प्रदाता औता ब्रह्मदी- पशी वेदशी इति भाष्ये नामान्तरम) तेषामध्य- यनं पञ्च कल्पानि भवन्ति । नक्षत्रकल्पोविधानकल्पो विधिविधानकल्पः संहिता शान्तिकल्पश्चेति । सर्वेषामेव वेदानामुपवेदा भवन्ति । ऋग्वेदस्यायुर्वेदः । यजुर्वेदस्य धनुर्वेद उपवेदः । सामवेदस्य गान्धर्ववेद उपवेदः । अथर्ववेदस्य शस्त्रशास्त्राणि भवन्ति” । “यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः । वैशाम्पायननामासौ व्यासशिष्य- श्चकार वै । शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनु- क्रमात् । याज्ञवल्क्यस्तु तस्याभूद् ब्रह्मरातसुतो द्विजः । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा । ऋषिर्योऽद्य महामेरोः समाजे नो गमिष्यति । तस्य वै सप्तरात्रन्तु ब्रह्महत्या भविष्यति । पूर्वमेव मुनिगणैः समयोऽयं कृतो द्विज! । वैशम्पायन एकस्तु तं व्यतिक्रः- न्तवांस्ततः । स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमधा- तयत् । सशिष्यानाह भोः शिष्याः ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्य्यमिदं तथा । अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्! द्विजैः । क्ले- शितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् । ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम् । मुच्यतां यत् त्वया- ऽधीतं मत्तो विप्रावमन्य च । निस्तेजसो वदस्वैतान् यस्त्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञा- भङ्गकारिणा । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज!” । श्रीपराशर उवाच “इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः । यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः । ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तुयैः । चरकाध्व- र्य्यवस्ते तु चरणान्मुनिसत्तम! । याज्ञवल्क्योऽपि मैत्रेय! प्राणायामपरायणः तुष्टाय प्रयतः सूर्य्यं यजूं- ष्यभिलषंस्ततः” । श्रीयाज्ञवलक्य उवाच “नमः सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुःसामभूताय त्रयीधा- मवते नमः” । श्रीपराशर उवाच “इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः । बाजिरूपधरः प्राह व्रियताम भिवाञ्छितम् । याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवा- करम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ” श्रीपराशर उवाच “एवमुक्तो ददौ तस्यै यजूंषि भग वान् रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्- गुरुः । यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम! । वाजिनस्ते समाख्याताः सूर्य्योऽश्वः सोऽभ्यपद्यत । शाखा- भेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्याः सुम- हाभाग! याज्ञवल्क्यप्रवर्त्तिताः” विष्णु पु० ३ अशे ५ अ० । ञ्जामवेद्रस्य संहिता यथा “सामवेदतरोः शाखा व्यास- शिष्यः स जैमिनिः । क्रमेण येन मैत्रेय! विभेद शृणु तन्मम । सुमन्तुस्तस्य पुत्रोऽभूत् सुत्वानप्यस्य वै सुतः । अधीतवन्तावेकैकां संहितां तौ महामुनी । साहस्रं संहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तञ्च तच्छिव्यौ जगृहाते महाव्रतौ । हिरण्य । कौशल्यः पौष्य- ञ्जिश्च द्विजोत्तमः । उदीच्याः सामगाः शिष्यास्तस्य पञ्चशताः स्मृताः । हिमण्यनाभात्तावत्यः संहिता वै द्विजोत्तम! । गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्य- सामगाः । लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा । पौष्यञ्जिशिष्यास्तद्भेल्लैः संहिता बहुलीकृताः । हिर- ण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः । प्रोवाच कृतिना- मासौ शिष्येभ्यः सुमहामतिः । तैश्चापि सामवेदो- ऽसौ शाणाभिर्बहुलीकृतः” । अथर्ववेदस्य संहिता यथा । अथर्वणामघोवक्ष्ये संहितानां समुच्चयम् । अथर्ववेदा स मुनिः सुमन्तुरमितद्युतिः । शिष्यमध्या- पयामास कबन्धं सोऽपि तं द्विधा । कृत्वा तु वेद- दर्शाय तथा पथ्याय दत्तवान् । वेददर्शस्य शिष्यास्तु मोदो ब्रह्मवलिस्तथा । शौल्कायनिः पिप्पलादस्तथान्यो मुनिसत्तमः । पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विज संहिताः । जाजलिः कुमुदादिश्च तृतीयः शौनको द्विज । शौनकस्तद्द्विधा कृत्वा ददावेकान्तु बभ्रवे । द्वि- तीयां संहितां प्रादात् सैन्धवायनसंज्ञिने । सैन्धवो मुञ्जकेशश्च भिन्दन् वेदं द्विधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च । चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्च पञ्चमः । श्रेष्ठाश्चाथर्वणामेते संहितानां विकल्पकाः” । विष्णुपु० ३ अशे ६ अ० । हेमाद्रि दा० ख० देवीपु० ७ य० वेदविभागोन्यथोक्तो यथ “किं वेदरूपं मामयं उपाङ्गसंख्याभेदतः । अङ्गानि चैव वेदानां तन्त्रो ब्रूहि सनातन!” । ब्रह्मोवाच “ओं- कारप्रभवा पदा गायत्री वेदसम्भवा । षडङ्गास्ते समाख्याता सहोपाङ्गास्तथैव च । छन्दोलक्षणसंयुक्ता मातकागर्भजाः स्मृताः । एकएव भवेद्वेदश्चतुर्वेदः पुन कतः । शाखार्थमल्पयुक्तानां ग्रहणायातिविस्तरात् । संविभक्ता मया वत्स! ऋग्यजुःगामाथर्वकाः । तत्र भे- दास्तु ऋग्वेदे दश चैव प्रकीर्त्तिताः । आस्तयाः साङ्ख्य चर्चाश्च आवका चर्चकास्तथा । आरणीयावक्रमाषाः षट्क्रमाःषडनुक्रमाः । दण्डाश्चेति समामेन पुनरेकैव पारणा । शाखाश्च त्रिविधा भूष! शाकला—याष्क—मा० ण्डुकाः । तेषामध्ययनं प्रोक्तं मण्डलानि च सप्ततिः । चर्च्चानां वरसङ्ख्या तु चतुर्विंशच्छतानि च । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च एतत् पारणमुच्यते । ऋग्वेदे तु भवेत्संख्या य- जुर्वेदस्य श्रूयताम् । षडशीतिर्विभेदेन मया भिन्नाः शिवाज्ञया । दशधा चरकास्तत्र क्वरकाहारिद्रवीयाः, कठाः प्राच्यकठश्चैव कपिष्ठलकठास्तथा । नारायणीयाः श्वेताश्च श्वेताश्वतरमैत्रायणाः । पुनः सप्त विभेदेन मैत्रा- यण्यः प्रकीर्त्तिताः । मानवा दुन्दुभा वाराहाः छागेया हारिद्रवीयाः, श्यामाः श्यामायनीयाश्च तेषामध्ययनमु- च्यते । अष्टादश सहस्राणि पाठा वेदविदोऽविदन् । द्वि- गुणं पदपारीयास्त्रिगुणं क्रमपारगाः । षडङ्गानि यदा- धीते स षडङ्गविदुच्यते । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषम् । षडङ्गानि भवन्त्येतान् उपाङ्गानि शृ- णुष्व भोः । प्रतिपदमनुपदं छन्दो भाषासमन्वितम् । मी- मांसा—न्यायतर्कश्च उपाङ्गाः परिकीर्त्तिताः । परिशि- ष्टाश्च संख्याता अष्टादश शृणुष्व तान्” । यूपलक्षणं छागलक्षणं प्रतिष्ठानुवाकसङ्ख्या चरणव्यूह—श्राद्ध—कल्प- सूक्तानि परिषदमृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छ- शास्त्रं क्रतुसंख्या निगमा यज्ञपार्श्वहोतकम् । व्रतं प्रसवोत्थानकूर्मलक्षणसंयुतम् । कथिताः परिशिष्टास्तु द्व्यूनविंशतिसंख्यया । कठानां पुनर्य्यान्याहुश्रत्वारिंशच्च- तुर्युतान् । प्राच्योदीच्या निरुह्याश्च वाजमपेयास्तु पञ्च च । दशभेदविभिन्नाश्च द्रष्टव्या मुनिपुङ्गव । जबाला- बौधेयाःकाण्वामाध्यन्दिनाश्व शापेयाः । सुपायिनः कपा- लाख्याः पौण्ड्रवः रसारविकाः । परमारविकाः पाराशरा ऋद्ध्याबौधायनीयाः । अयोध्या अयोधेयाश्च तेषामध्ययनानि च । द्विसहह्रे शतन्यूने वेदे वाजसनेयके । ऋग्गणीयं प्रसंख्यातस्ततोऽन्यानि यजूंषि च” । एतत्प्रमाणं यजुषां हि केवलम् “सखिलं सक्रियं परिसंख्यातं ब्राह्मणम् । चतुर्गुणन्तु जानीयात्तैत्तिरौया द्विधा पुनः । ऋचेयाः खाण्डिकेयाश्च खण्डिकाः पञ्चधा पुनः । कालेया बौधा- यनीया हिरण्यकेशास्तथैव च । भारद्वाजापस्तम्बाश्च तेषां भेदाः प्रकीर्त्तिताः । अध्ययनं सौप्तिकञ्चैव प्रवच- नीयं तथापरम् । सामवेदस्तु विस्तीर्णः सहस्रभेदशः पुरा । अनध्यायेष्वधीयानाः तदा इन्द्रेण धीमता । व- ज्रेण निहताः शेषांस्तान्वक्ष्ये शृणु सत्तम! । राणाय- नीयाः वौथुमास्तत्र भेदान् पुनः शृणु । राणायनीयाः सप्तैव सुग्राह्यास्तपतांवर । कालवेया महाकालवेया- लाङ्गलवैद्युताः । कौथुमानामपि सप्त असुरावानरा- यणाः । प्रजालावैनभृत्याश्च परियोग्याः परिकायणाः । अध्ययनमपि तेषान्तु यथावत् कथितं शृणु । अष्टौ सामसहस्राणि सामानि च चतुर्दश । अष्टौ शतानि नवतीः दश सवालखिल्यकाः । ससुपर्णाश्च प्रख्याश्च एतं सामगणं विदुः । अथो अथर्व्ववेदस्य नव भेदा भवन्ति हि । पिप्पलादा वर्त्मदाश्च भूतायनाः कातयस्तथा । जज्वला ब्रह्मवेदाश्च शोनकी कनखी तथा । वेदऋषि- श्चौरविद्या तेषामध्ययनं शृणु” । पञ्चकल्पा भवन्ति “न- क्षत्रकल्पोवैतानः संहिताविधिः आङ्गिरसम् । शान्तिक- ल्पश्च अथर्वणो भवन्ति ह । ऋग्वेदस्यात्रेयं गोत्रं वासु- देवं विदुर्बुधाः । काश्यपञ्च यजुर्वेदं रुद्रदेवन्तु तं विदुः । सामवेदोऽपि गोत्रेण भारद्वाजः पुरन्दरम् । अधिदेवं विजानीयात् वैतानन्तु अथर्वणः” ।
शब्दकल्पद्रुमः
वेदः || पुं, (विद + घञ् ।)
विष्णुः । यथा, —
“वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥” इति विष्णुसहस्रनामस्तोत्रम् ॥ वृत्तम् । इति मेदिनी ॥ क्वचित् पुस्तके वित्त- मित्यपि पाठः । यज्ञाङ्गम् । इति नानार्थरत्न- माला ॥ मीनशरीरावच्छेदेन भगवद्बाक्यम् । इति न्यायशास्त्रम् ॥ धर्म्मब्रह्मप्रतिपादकमपौ- रुषेयवाक्यम् । इति वेदान्तशास्त्रम् ॥ ब्रह्ममुख- निर्गतधर्म्मज्ञापकशास्त्रम् । इति पुराणम् ॥ तत्पर्य्यायः । श्रुतिः २ आम्नायः ३ । इत्य- मरः ॥ छन्दः ४ ब्रह्म ५ निगमः ६ । इति शब्दरत्नावली ॥ प्रवचनम् ७ । इति जटा- धरः ॥ * ॥
वेदस्य प्रादुर्भावो । यथा । कदाचित् कथं सृक्ष्यामीति ध्यायतो ब्रह्मणो मुखचतु- ष्टयेभ्यश्चत्वारो वेदाः प्रादुरासन् । यथा । एक- विंशतिशाखात्मक-ऋक् १ शतशाखात्मक- यजुः २ सहस्रशाखामयसाम ३ नवशाखा- मयाथर्व्व ४ । इति पुराणम् ॥ अपि च । श्रीमार्कण्डेय उवाच । “तस्मादण्डाद्विनिर्भिन्नाद्ब्रह्मणोऽव्यक्तजन्मनः । ऋचो बभूवुः प्रथमं प्रथमाद्वदनान्मुने ॥ जवापुष्पनिभाः सद्यस्तेजोरूपा ह्यसंवृताः । पृथक् पृथग्विभिन्नाश्च रजोरूपा महात्मनः ॥ यजूंषि दक्षिणाद्वक्त्रादनिबद्धानि कानिचित् । यादृक्वर्णं तथा वर्णान्यसंहतिचराणि वै ॥ पश्चिमं यद्विभोर्व्वक्त्रं ब्रह्मणः परमेष्ठिनः । आविर्भूतानि सामानि ततः कुन्दसितान्यथा ॥ अथर्व्वाणमशेषेण भृङ्गाञ्जनचयप्रभम् । घोराघोरस्वरूपं तदाभिचा रिकशान्तिमत् ॥ उत्तरात् प्रकटीभूतं वदनात्तत्तु वेधसः । मुखं सत्त्वतमःप्रायं सौम्यासौम्यस्वरूपवत् ॥ ऋचो रजोगुणाः सत्त्वं यजुषाञ्च गुणो मुने । तमोगुणानि सामानि तमःसत्त्वमथर्व्वसु ॥ एतानि ज्वलमानानि तेजसाप्रतिमेन वै । पृथक् पृथगवस्थानं भाञ्जि पूर्व्वमिवाभवत् ॥ ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिशस्यते । तस्यानुभावादृक्तेजस्तमांस्यावृत्य संस्थितम् ॥ यथा यजुर्म्मयं तेजो यच्च साम्नां महामुने । एकत्वमुपयातानि परतेजसि संश्रयात् ॥ शान्तिकं पौष्टिकञ्चैव तथा चैवाभिचारिकम् । ऋगादिषु लयं ब्रह्मंस्त्रितयं त्रिष्वथागमत् ॥ ततो विश्वमिदं सद्यस्तमोनाशात् सुनिर्म्मलम् । बभावतीव विप्रर्षे तिरश्चोर्द्ध्वमधस्तथा ॥ ततस्तन्मण्डलीभूतं छान्दसं तेज उत्तमम् । परेण तेजसा ब्रह्मन् ! एकत्वमुपगम्य तत् ॥ आदित्यसंज्ञामगमदादावेव यतोऽभवत् । विश्वस्यास्य महाभाग कारणञ्चाव्ययात्मकम् ॥ प्रातर्मध्यन्दिने चैव तथा चैवापराह्णिके । त्रयी तपति सा काले ऋग्यजुःसामसंज्ञिता ॥ ऋचस्तपन्ति पूर्व्वाह्णे भध्याह्ने च यजूंषि वै । सामानि चापराह्णे तु तपन्ति मुनिसत्तम ॥ शान्तिकं ऋक्षु पूर्ब्बाह्णे यजुः स्वनृचपौष्टिकम् । अपराह्णे स्थितं नित्यं सामस्वेवाभिचारिकम् ॥ सृष्टौ च ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्म्मयः । रुद्रः साममयोऽन्ते च तस्मात्तस्या शुचिर्ध्वनिः ॥ तदेवं भगवान् भास्वान् वेदात्मा वेदसंस्थितः । वेदविद्यात्मकश्चैव परः पुरुष उच्यते ॥ स्वर्गस्थित्यन्तहेतुः स रजःसत्त्वादिकैर्गुणैः ॥ आश्रित्य ब्रह्मविष्ण्वादिसंज्ञामभ्येति शाश्वतः ॥ वेदैः स वेद्यः स तु वेदमूर्त्ति- रमूर्त्ति-राद्योऽखिलविश्वमूर्त्तिः । विश्वाश्रयं ज्योतिरवेद्यवर्त्मा धर्म्मावदातः परमः परेभ्यः ॥” इति श्रीमार्कण्डेयपुराणे सूर्य्यमाहात्म्ये सूर्य्यो- त्पत्तिनामाध्यायः ॥ * ॥
अन्यच्च । “अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्बापरे द्बिजाः । पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् ॥ ए सव सर्व्ववेदानां पुराणानां प्रदर्शकः । पाराशर्य्यो महायोगी कृष्णद्वैपायनो हरिः ॥ आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् । तत्प्रसादादसौ व्यासो वेदानामभवत् प्रभुः ॥ अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् । जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च ॥ पैलं तेषां चतुर्थञ्च पञ्चमं मां महामुनिः । ऋग्वेदश्रावकं पैलं प्रजग्राह महामुनिः ॥ यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च । जैमिनिं सामवेदस्य श्रावकं सोऽन्वपद्यत ॥ तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ एक आसीद्यजुर्व्वेदस्तञ्चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ अध्वर्य्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥ ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥ एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥ भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । योऽयमेकश्चतुष्पादो वेदः पूर्व्वं पुरातनात् ॥ ॐकारो ब्रह्मणो जातः स दोषविषशोधनः । वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ स गीयते वरो देवो यो वेदैनं स वेदवित् । एतत् परतरं ब्रह्मज्योतिरानन्दमुत्तमम् ॥ वेदवाक्योदितं तत्त्वं वासुदेव परं पदम् । वेदवेद्यमिदं वेत्ति वेदं वेदपरो मुनिः ॥ अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ इत्येतदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदञ्च विनाजाति पाराशर्य्यो महामुनिः ॥” इति कौर्म्मे ४९ अध्यायः ॥ * ॥
वेदाध्ययनपात्रं यथा, — व्यास उवाच । “एवं दण्डादिभिर्युक्तं शौचाचारसमन्वितः । आहूतोऽध्ययनं कुर्य्याद्वीक्षमाणो गुरोर्म्मुखम् ॥ नित्यमुद्यतपाणिः स्यात् साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ प्रतिश्रवणसम्भाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ नीचं शय्यासनं चास्य सर्व्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्व्वीत गतिभाषितचेष्टितम् ॥ गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ दूरस्थो नार्च्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा । मार्ज्जनं लेशनं नित्यमङ्गानां वै समाचरेत् ॥ नास्य निर्म्माल्यशयनं पादुकोपानहावपि । नाक्रामेदासनञ्चास्य छायादीन् वै कदाचन ॥ साधयेद्दण्डकाष्ठादीन् लब्धञ्चास्मै निवेदयेत् । अनापृच्छन्न गन्तव्यं भवेत् प्रियहिते रतः ॥ न पादौ धावयेदस्य सन्निधाने कदाचन । जृम्भितं हसितञ्चैव कण्ठप्रावरणं तथा ॥ वर्ज्जयेत् सन्निधौ नित्यमवस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः ॥ आसीताधो गुरोर्दर्भे फलके वा समाहितः । आसने शयने याने नैव तिष्ठेत् कथञ्चन ॥ धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति । गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ आसीत गुरुणा सार्द्धं शिलाफलकनौषु च । जितेन्द्रियः स्यात् सततं वश्यात्माक्रोधनः शुचिः ॥ प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् । गन्धं माल्यं रसं कन्यां शुक्तं प्राणिविहिंसनम् ॥ अभ्यङ्गञ्चाञ्जनोपानच्छत्रधारणमेव च । कामं लोभं भयं निद्रां गीतं वादित्रनृत्यकम् ॥ आतर्ज्जनं परीवादं स्त्रीप्रेक्षालभनन्तथा । परोपघातपैशुन्यं प्रयत्नेन विवर्ज्जयेत् ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षञ्चाहारमाचरेत् ॥ कृतञ्च लवणं सर्व्वं वर्ज्यं पर्य्युषितञ्च यत् । अनृत्यदर्शी सततं भवेद्गीतादिनिस्पृहः ॥ नादित्यं वै समीक्षेत नाचरेद्दन्तधावनम् । एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ गुरूच्छिष्टं भैषजार्हं प्रभुञ्जीत न कामतः । मलापकर्षणं स्नानं नाचरेद्धि कथञ्चन ॥ न कुर्य्यान्मानसं विप्र गुरोस्त्यागे कथञ्चन । मोहाद्वा यदि वा लोभात्त्यक्तेन पतितो भवेत् ॥ लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तन्न द्रुह्येत् कदाचन ॥ गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः । उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ गुरोर्गुरोः सन्निहिते गुरुवद्वृत्तिमाचरेत् । न चाविसृष्टगुरुणा स्वान् गुरूनभिवादयेत् ॥ विद्यागुरुष्वेतदेव नृत्यवृत्तिस्वयोनिषु । प्रतिषेधान्न चाधर्म्मा द्बिजञ्चोपदिशत्स्वपि ॥ श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्त्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ उत्सादनं वा गात्राणां स्नपनोच्छिष्टभोजने । न कुर्य्याद्गुरुपुत्त्रस्य पादयोः शौचमेव च ॥ गुरुवत् प्रतिपूज्यास्तु सवर्णा गुरवस्तथा । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥ गुरुपत्नीन्तु युवतीं नाभिवाद्येत पादयोः । कुर्व्वीत वन्दनं भूमावेषोऽहमिति च ब्रुवन् ॥ विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ मातृस्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नी च समास्ता गुरुभार्य्यया ॥ भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रस्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ एवमाचारसम्पन्नमात्मवश्यमदाम्भिकम् । वेदमध्यापयेद्धर्म्मं पुराणाङ्गानि नित्यशः ॥ तथा चिरोषिते शिष्ये गुरुर्ज्ञानमनिर्द्दिशन् । हरते दुष्कृतं तस्य शिष्यस्यैवं ततो गुरुः ॥ आचार्य्यपुत्त्रः शुश्रूषुर्ज्ञानदो धार्म्मिकः शुचिः । आप्तः शक्तोऽर्थदः साधुरध्याप्या दश धर्म्मतः ॥ कृतज्ञश्च तथाद्रोही मेधावी शुभकृन्नरः । आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्बिजातयः । एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितात् ॥” * ॥
वेदाध्ययनविधिर्यथा, —
“आचम्य संयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्भुखम् ॥ अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् । प्राक् भूतान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥ प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति । ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः ॥ कुर्य्यादध्यापनं नित्यं स ब्रह्मादीनि पूर्व्वतः । सर्व्वेषामेव भूतानां देवश्चक्षुः सनातनः ॥ अधीतानध्ययन्नित्यं ब्राह्मण्याद्धीयतेऽन्यथा । अधीयीत ऋचो नित्यं क्षीरहुत्या सदेवताः ॥ प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदेवताः । यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ॥ सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् । अथर्व्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ॥ धर्म्मार्थञ्च पुराणानि मांसैस्तर्पयते सुरान् । अपां समीपे प्रयतो नैत्यिकं विधिमाश्रितः ॥ गायत्त्रीमप्यधीयीत गत्वारण्यं समाहितः । सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ गायत्त्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ गायत्त्रीञ्चैव वेदांश्च तुलयातोलयत् प्रमुः । एकतश्चतुरो वेदान् गायत्त्रीञ्च तथैकतः ॥ ॐकारमादितः कृत्वा व्याहृतीस्तदनन्तरम् । ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः । महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥ प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः । सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् । एष मन्त्रो महाभागः सारात्सार उदाहृतः ॥ योऽधीतेऽहन्यहन्येतां सावित्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ गायत्त्री वेदजननी गायत्त्री लोकपावनी । न गायत्त्र्याः परं जप्यं एतद्विज्ञाय मुच्यते ॥ श्रावणस्य च माघस्य पौर्णमास्यां द्बिजोत्तमाः । आषाढ्यां प्रौष्ठपद्यां वा वेदोपकरणे स्मृतः ॥ उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् । अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ पुष्ये तु छन्दसां कुर्य्याद्बहिरुत्सर्ज्जयेद्द्विजः । माघशुक्लस्य तु प्राप्ते पूर्ब्बाह्णे प्रथमेऽहनि ॥ छन्दांस्यूर्द्ध्वमथो जप्यात् शुक्लपक्षे तु वै द्बिजः । वेदाङ्गानि पुराणानि कृष्णपक्षे तु मानवः ॥ * ॥
इमान्नित्यमनध्यायानधीयानो विचक्षणः । अध्यापनञ्च कुर्व्वाणो अभ्यस्यन्नपि यत्नतः ॥ कर्णश्रवेऽनिले रात्रौ दिवा पांशुससूहने । विद्युत्स्तनितसर्व्वेषु महोल्कानाञ्च संप्लवे ॥ आकालिकमनध्यायमेतेष्वाह प्रजापतिः । एतानभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु ॥ तदा विद्यादनध्यायमनृतौ चात्र दर्शने । सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च । धर्म्मनैपुण्यकामानां पूतिगन्धेषु नित्यशः ॥ अन्तःशवगते ग्रामे वृषलस्यैव सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥ उदके मध्यरात्रे च विण्मूत्रस्य विसर्ज्जने । उच्छिष्टः श्राद्धं भुक्त्वैव मनसापि न चिन्तयेत् ॥ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ यावदेकान्तदुष्टस्य स्नेहो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्त्तयेत् ॥ शयानः प्रौढपादश्च तथा चैवावशक्थिकः । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ निराहारे बाणशब्दे सन्ध्ययोरुभयोरपि । अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टमीषु च ॥ उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥ मार्गशीर्षे तथा पौषे माघमासे तथैव च । तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः ॥ श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ समानविद्ये तु मृते तथा सब्रह्मचारिणि । आचार्य्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम् ॥ छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकी- र्त्तिताः । हिंसन्ति राक्षसास्तेषु तस्मादेतानि वर्ज्जयेत् ॥ नित्यके नास्त्यनध्यायः सन्ध्योपासन एव च । उपाकर्म्मणि कर्म्मान्ते होममन्त्रे तथैव च ॥ एकामृचमथैकं वा यजुः सामाथवा पुनः । अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥ अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥ * ॥
एष धर्म्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् । ब्रह्मणाभिहितः पूर्व्वमृषीणां भावितात्मनाम् ॥ योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः । स संमूढो न संभाव्यो वेदवाह्यो द्बिजातिभिः ॥ न वेदपाठमात्रेण सन्तुष्टो वै भवेत् द्विजः । पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ॥ अधीत्य विधिवद्बेदं वेदार्थं न विचारयेत् । स सान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते ॥ पठित्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरोः । युक्तः परिचरेदेनं न शरीरविमोक्षणम् ॥ गत्वा वनं यो विधिवज्जुहूयाज्जातवेदसम् । अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः ॥ सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः । अभ्यसेत् सततं मुक्तो भस्मस्नानपरायणः ॥ एतद्विधानं परमं पुराणं वेदागमे सम्यगिहेरितं वः । पुरा महर्षिप्रवराभिपृष्टः स्वायम्भुवो यन्मनुराह देवः ॥ एतमीश्वरसमीरितं नरो योऽनुतिष्ठति विधिं विधानवित् । मोहजालमपहाय सोऽमृतो याति ततपदमनामयं शिवम् ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥ अथ ऋग्वेदस्य संहिता । “बिभेद प्रथमं विप्र पैल ऋग्वेदपादपम् । इन्द्रप्रमितये प्रादात् वास्कलाय च संहिते ॥ चतुर्द्धा सा विभेदाथ वास्कलो निजसंहिताम् । बोध्यादिभ्यो ददौ तास्तु शिष्येभ्यः स महामतिः ॥ बोध्याग्निमातुरौ तद्वत् जातुकर्णपराशरौ । प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ इन्द्रप्रमितिरेकान्तु संहितां स्वसुतं ततः । माण्डूकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ तस्य शिष्यप्रशिष्येभ्यः पुत्त्रशिष्यक्रमाद्ययौ । वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् ॥ चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः । तस्य शिष्याश्च ये पञ्च तेषां नामानि मे शृणु ॥ मुद्गलो गालवश्चैव वात्स्यः शालीय एव च । शैशिरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥ संहितात्रितयञ्चक्रे शाकपूर्णिरथेतरः । निरुक्तमकरोत्तद्बच्चतुर्थं मुनिसत्तम ॥ क्रौञ्चो वैतालिकस्तद्बद्बलाकश्च महामतिः । निरुक्तकृच्चतुर्थोऽभूद्वेदवेदाङ्गपारगः ॥ इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम । वास्कलिश्चापरास्तिस्रः संहिताः कृतवान् द्विजः ॥ शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च तथा जवः । इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रव- र्त्तिताः ॥ इति विष्णुपुराणे ३ अंशे वेदविभक्तिर्नाम ४ अध्यायः ॥ * ॥
यजुर्व्वेदस्य संहिता यथा, —
“यजुर्व्वेदतरोः शाखाः सप्तविंशन्महामतिः । वैशम्पायननामासौ व्यासशिष्यश्चकार वै । शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥ याज्ञवल्क्यस्तु तस्याभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्म्मज्ञो गुरुवृत्तिपरः सदा ॥ ऋषिर्य्योऽद्य महामेरोः समाजे नागमिस्यति । तस्य वै सप्तरात्रन्तु ब्रह्महत्या भविष्यति । पूर्ब्बमेव मुनिगणैः समयोऽयं कृतो द्बिज ॥ वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्ततः । स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमघातयत् ॥ स शिष्यानाह भोः शिष्याः ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्व्वे न विचार्य्यमिदं तथा ॥ अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्द्विजैः । क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥ ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम् । मुच्यतां यत् त्वयाधीतं मत्तो विप्रावमन्यक ! ॥ निस्तेजसो वदस्वेतान् यस्त्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥ याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ श्रीपराशर उवाच । इत्युक्त्वा रुधिराक्तानि स्वरूपाणि यजूंषि सः । छर्द्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥ यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥ ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु यैः । चरकाध्वर्य्यवस्ते तु चरणान्मुनिसत्तम ॥ याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रयतः सूर्य्यं यजूंष्यभिलषंस्ततः ॥ श्रीयाज्ञवल्क्य उवाच । नमःसवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुःसामभूताय त्रयीधामवते नमः ॥ श्रीपराशर उवाच । इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः । वाजिरूपधरः प्राह व्रियतामभिवाञ्छितम् ॥ याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवाकरम् । यजूषि तानि मे देहि यानि सन्ति न मे गुरौ ॥ श्रीपराशर उवाच । एवमुक्तो ददौ तस्मै यजुंषि भगवान् रविः । अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ यजूंषि यैरधीतानि तानि वेप्रैर्द्बिजोत्तम । वाजिनस्ते समाखाताः सूर्य्योऽश्वः सोऽभवद्- यतः ॥ शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्याः सुमहाभाग याज्ञवल्क्यप्रवर्त्तिताः ॥” इति श्रीविष्णुपुराणे ३ अंशे वाजिनामाख्यार्न ५ अध्यायः ॥ * ॥
सामवेदस्य संहिता यथा, —
“सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः । क्रमेण येन मैत्रेय विभेद शृणु तन्मम ॥ सुमन्तुस्तस्य पुत्त्रोऽभूत् सुकर्म्मास्याप्यभूत् सुतः । अधीतवन्तावेकैकां संहितां तौ महामुनी ॥ साहस्रं संहिताभेदं सुकर्म्मा तत्सुतस्ततः । चकार तञ्च तच्छिष्यौ जगृह्णाते महाव्रतौ ॥ हिरण्यनाभिः कौशल्यः पौष्यञ्जिश्च द्विजोत्तमः । उदीच्याः सामगाः शिष्यास्तस्य पञ्चशताः स्मृताः ॥ हिरण्यनाभात्तावत्यः संहिता यैर्द्वि जोत्तम । गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्य सामगाः ॥ लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा । पौष्यञ्जिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः । प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः ॥ तैश्चापि सामवेदोऽसौ शखाभिर्बहुलीकृतः ॥” * अथर्व्ववेदस्य संहिता यथा, —
“अथर्व्वणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्व्ववेदं स मुनिः सुमन्तुरमितद्युतिः ॥ शिष्यमध्यापयामास कबन्धं सोऽपि तद्द्विधा । कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान् ॥ वेददर्शस्य शिष्यास्तु मोदो ब्रह्मवलिस्तथा । शौल्कायनिः पिप्पलादस्तथान्यो मुनिसत्तमः ॥ पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विज संहिताः । जाजलिः कुमुदादिश्च तृतीयः शौनको द्विज ॥ शौनकस्तद्द्विधा कृत्वा ददावेकान्तु वभ्रवे । द्वितीयां संहितां प्रादात् सैन्धवायनसंज्ञिने ॥ सैन्धवा मुञ्जकेशाश्च भिन्नवेदा द्बिधा पुनः । नक्षत्रकल्पो वेदानां संहितानान्तथैव च ॥ चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्च पञ्चमः । श्रेष्ठाश्चाथर्व्वणामेते संहितानां विकल्पकाः ॥” इति विष्णुपुराणे ३ अंशे ६ अध्यायः ॥ अन्यत् कूर्म्मपुराणवत् ॥ * ॥
अपरञ्च । “वेदो हरेर्व्वाक् सावित्री वेदमाता प्रतिष्ठिता । त्रिगुणञ्च त्रिवृत्सत्रं तेन विप्राः प्रतिष्ठिताः ॥ दशयज्ञैः संस्कृता ये ब्राह्मणा ब्रह्मवादिनः । तत्र वेदाश्च लोकानां त्रयाणामिह पोषकाः ॥ यज्ञाध्ययनदानादितपःस्वाध्यायसंयमैः । प्रीणयन्ति हरिं भक्त्या वेदतन्त्रविधानतः ॥” इति कल्किपुराणे २ अध्यायः ॥ * ॥
वेदोक्तकर्म्म कर्त्तव्यं यथा, —
“श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् । सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा ॥ अन्यथा निरयं याति कुमार्गगणसेवनात् । अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत् ॥” इति पाद्मोत्तरखण्डे १७ अध्यायः ॥ * ॥
वेदाचाराल्लौकिकाचारो बलवान् यथा, — पार्व्वत्युवाच । “केवलं वेदमाश्रित्य कः करोति विनिर्णयम् । बलनान् लौकिको वेदाल्लोकाचारञ्च कस्त्यजेत् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ७ अध्यायः ॥ * ॥
अथ वेदस्य स्थितिकालः । “कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् । वैष्णवाश्च पुराणानि शङ्खानि श्राद्धतर्पणम् ॥ वेदोक्तानि च कर्म्माणि ययुस्तैः सार्द्धमेव च । हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ॥ वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्द्धमेव च । सत्वञ्च धर्म्मः सत्यश्च वेदाश्च ग्रामदेवताः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ * ॥
आयुर्व्वेदस्योत्पत्तिलक्षणे यथा, —
“यद्वक्त्रेभ्यः पञ्चसंख्यागतेभ्यो वेदा जाता ऋग्यजुःसामभेदाः । आयुर्व्वेदोऽथर्व्ववेदश्चेति कणादः ॥ आस्ते वेदः पञ्चमो वैद्यकाख्यो वेत्ता कश्चित्तस्य नास्ते महेशात् । तस्माद्धाताध्यैत तस्मात्तुराषाट्- तस्माज्ज्ञात्वा वक्तुमर्हामि शास्त्रम् ॥” इति गूढबोधः ॥ “हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । मानञ्च तच्च यत्रोक्तमायुर्व्वेदः स उच्यते ॥” इति सुखबोधः ॥ * ॥
* ॥
चतुर्वेदानां विवरणं यथा । अथातश्चरणव्यूहं व्याख्यास्यामः । तत्र यदुक्तं चातुर्व्वेद्यम् । चत्वारो वेदा विज्ञाता भवन्ति । ऋग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्ववेदश्चेति । तत्र ऋग्वेदस्याष्टौ स्थानानि भवन्ति । चर्च्चाश्रावकः १ चर्च्चकः २ श्रवणीयपारः ३ क्रमपारः ४ क्रमरथः ५ क्रमजटः ६ क्रमशटः ७ क्रमदण्डश्चेति ८ । चतुष्पारायणमेतेषाम् । शाखाः पञ्चविधा भवन्ति । आश्वलायनी १ संख्यायनी २ शाकला ३ वास्कला ४ माण्डूकेयाश्चेति ५ । तेषामध्ययनम् । अध्यायाश्चतुःषष्टिः । मण्ड- लानि च दशैव तु । “एकर्च एकवर्गस्यादेकश्च नवकस्तथा । द्वौ वर्गौ द्वे ऋचौ ज्ञेये त्रीणि ऋचशतं स्मृतम् ॥ चतुऋचं समाख्यातं षट्सप्तत्युत्तरं शतम् । पञ्चर्च्चं द्वादश शतान्यष्टाविंशोत्तराणि च ॥ शतत्रयं षडर्च्चञ्च सप्तपञ्चाशदुत्तरम् । सप्तर्च्चमेकान्न त्रिंशदुत्तरं शतमेककम् ॥ अष्टर्चाः पञ्चपञ्चाशद्बर्गाः स्युर्नाधिकोत्तराः । वर्गाणां परिसंख्यातं द्बे सदस्रे षडुत्तरे ॥ सहस्रमेकं सूक्तानां निर्व्विशङ्कं विकल्पनाम् । दशसप्तसु पट्यन्ते संख्यातं वै पदक्रमम् ॥ एकशतं सहस्रं वा द्बिपञ्चाशत् सहस्रार्द्धम् । एतानि च चतुर्द्दश वाशिष्ठानाम् । इतरेषां पञ्चाशीतिक्रमकाले तु वेष्टव्यम् । चतुस्त्रिंशत्- सहस्राणि द्विखण्डानां सहस्राणां द्वात्रिंशत् षोडशोत्तराः । चत्वारिंशत्सहस्राणि द्वात्रिं- शतञ्चाक्षरसहस्राणि । ऋचां दशसहस्राणि ऋचां पञ्चशतानि च । ऋचामशीतिपादश्चैतत्परायणमुच्यते ॥ एक ऋचैकवर्गश्च एकश्च नवकस्तथा । द्वौ वर्गौ द्वे ऋचौ ज्ञेये त्रीणि त्रीणि शत- न्तथा ॥ सहस्रमेकं सूक्तानां पञ्चानां शतमानविंशतिः । सप्तकानां द्वे च सप्तोत्तरे शते । चतुरृचे त्रीणि शतानि षट्कानां त्रीण्याः षष्टिरष्टकानाम् ॥ * ॥
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरकाणां द्वादशभेदा भवन्ति । चरकाः १ आह्वरकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठल- कठाः ५ औपमन्याः ६ आष्टलकठाः ७ चारा- यणीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ श्वेताश्वेततरा इति वा पाठः । मैत्रायणीयाश्चेति १२ । तत्र मैत्राय- णीयानां सप्तभेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्र- वेयाः ५ श्यामाः ६ श्यामायनीयाश्चेति ७ । तेषामध्ययनमष्टौ । यजुःसहस्राण्यधीत्य शाखा- पारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा १ कल्पो २ व्याकरणम् ३ निरुक्तम् ४ छन्दो ५ ज्योतिषमित्यङ्गानि ६ । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेयानां सप्त- दशभेदा भवन्ति । जावालाः १ औघेयाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापा- यनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आव- टिकाः ९ पामावटिकाः १० परमावटिकापि पाठः । पाराशरीयाः ११ वैधेयाः १२ वैनेयाः १३ ओघेयाः १४ गालवाः १५ वैजवाः १६ कत्यायनीयाश्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि ॥ उपज्योतिषम् । साङ्गलक्षणम् । प्रतिज्ञान- वाक्यम् । परिसंख्या । चरणव्यूहम् । श्राद्ध- कल्पः । प्रवराध्यायश्च । शास्त्रम् । क्रतुः । संख्यानः । आगमः । यज्ञम् । पार्श्वान् । होत्रकम् । पारष्यानुहोत्रकमपि पाठः । पशवः । उक्थानि । कूर्म्मलक्षणमित्यष्टादश परिशिष्टानि । “द्वे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयकाणाम् द्बिभेदा भवन्ति । औक्ष्याः १ खमध्योऽपि पाठः । खाण्डिकेया- श्चेति २ । तत्र खाण्डिकेयानाम् पञ्चभेदा भवन्ति । आपस्तम्बी १ बौधायनी २ सत्या- षाढी ३ हिरण्यकेशी ४ औघेयाश्चेति ५ औधेयी च पाठः । तत्र कठानान्तूपगान- विशेषाः । चतुश्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्व्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयः शेषाः शाखान्तराः स्मृताः ॥” * ॥
सामवेदस्याखिलसहस्रभेद आसीत् । अखिल- स्थाने किल इति भाष्यसम्मतः । अनध्याये- ष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः । तेषां प्रवक्ष्याम्यासुरायणीया वासुरायणीया वार्त्तान्तवेया प्राञ्जला ऋग्वर्णभेदा प्राचीन- योग्या ज्ञानयोग्या राणायनीयाश्चेति । तत्र राणायनीयानां नव भेदा भवन्ति । राणाय- नीयाः । शाष्ठ्यायनीयाः । शावायनीयाः इति शाठ्यमुग्र्याः इति च पाठः । सात्वलाः । सात्यमुद्भवा इति वा पाठः । मौद्गलाः । इति तु भाष्ये नास्ति । खल्वलाः । महाखल्वलाः । लाङ्गलाः । कौथुमाः । गौतमाः । जैमिनीया- श्चेति । तेषामध्ययनमष्टौ सामसहस्राणि सामानि च चतुर्द्दश अष्टौ शतानि । दशेति दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्यः । क्वचित् पुस्तके नवतिदशतिवालखिल्यः ससुपर्णप्रेक्ष्यः इति च पाठः । एतत् सामगणं स्मृतम् ॥ * ॥
अथर्व्ववेदस्य नव भेदा भवन्ति । पैप्पलाः । दान्ताः । प्रदान्ताः । स्नाताः । स्नौता इति च पाठः । सौत्नाः । ब्रह्मदावलाः । शौनकी । देविदर्शती । चरणविद्याश्चेति । दाता प्रदाता औता ब्रह्मदीपशी वेदशी इति भाष्ये नामा- न्तरम् । तेषामध्ययनं पञ्च कल्पानि भवन्ति । नक्षत्रकल्पो विधानकल्पो विधिविधानकल्पः संहिता शान्तिकल्पश्चेति । सर्व्वेषामेव वेदाना- मुपवेदा भवन्ति । ऋग्वेदस्यायुर्व्वेदः । यजु- र्व्वेदस्य धनुर्व्वेद उपवेदः । सामवेदस्य गान्धर्व्व- वेद उपवेदः । अथर्व्ववेदस्य शस्त्रशास्त्राणि भवन्ति ॥ * ॥
(अथर्व्ववेदस्य तन्त्रशास्त्राणीत्येवं सुष्ठु मन्यते । तथा च शुक्रनीतौ । ४ । ३ । २७ । “ऋग्यजुःसामचाथर्व्वा वेदा आयुर्धनुःक्रमात् । गान्धर्व्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥”)
ऋग्वेदस्यात्रेयगोत्रं ब्रह्मदैवत्यं गायत्त्रं छन्दः । ऋग्वेदो रुक्मवर्णः पद्मपत्रायताक्षः सुविभक्तग्रीवः कुञ्चितकेशः श्मश्रुश्वेतवर्णः द्बिरत्निसंयुतः ॥ * ॥
यजुर्व्वेदस्य भारद्वाजगोत्रं रुद्रदैवतं त्रैष्टुभं छन्दः । यजुर्व्वेदः कृशो दीर्घः कपाली ताम्रवर्णः काञ्चननयनः आदित्यवर्णो वर्णेन पञ्चारत्नि- मात्रः ॥ * ॥
सामवेदस्य काश्यपगोत्रं विष्णुदैवत्यं जागतं छन्दः । सामवेदो नित्यस्रग्वी शुचिः शुचौ वासी शुचिवासाः इति च पाठः । क्षौमी इत्यपि पाठः । दान्ती चर्म्मी दण्डी काञ्चननयनः आदित्यवर्णो वर्णेन षडरत्निमात्रः ॥ * ॥
अथर्व्व- वेदस्य वैजानगोत्रं इन्द्रदैवत्यं आनुष्टुभं छन्दः । अथर्व्ववेदस्तीक्ष्णञ्चण्डः कृष्णः कामरूपी क्षुद्र- कर्म्मो ह्येव साध्याः क्षुद्रकर्म्मिष्वेव साध्या इति वा पाठः । सविग्रहाः सकलहाः मूर्ध्नि गालवः सदानतृष्णः परस्त्रियान्यश्चेति नवरत्निमात्रः । ग्रन्थान्तरे विश्वात्मा विश्वकर्म्मा स्वशाखा- ध्यायी । प्राज्ञो महानीलोत्पलवर्णो वर्णेन दश- रत्निमात्र इति च पाठः ॥ * ॥
अथ ध्यानम् । “ध्यायामि त्वां पद्मपत्रायताक्षं कुञ्चितकेशं ब्रह्मदैवत्यमाद्यम् । गायत्त्र्यं ऋग्वेदमात्रेयगोत्रं रुक्मवर्णं श्मश्रुलोमप्रमाणम् ॥ वन्दे रोद्रं त्रैष्टुभं ताम्रवर्णं भारद्वाजं रुक्मनेत्रं कृशाङ्गम् । यजुर्व्वेदं दीर्घमादित्यवर्णं कापालिनं पञ्च चारत्निमात्रम् ॥” * ॥
य इदं दैवतं रूपं गोत्रप्