संस्कृत-शब्दकोशः

वेदगुप्ति वेदना

वेदन

वाचस्पत्यम्

वेदन ||‍ न० विद—ल्युट् । १ ज्ञाने २ सुखदुःखाद्यनुभवे ३ विवाहे च “वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने” इति मनुः । युच् । वेदनापि उक्तार्थेषु स्त्री । मा स वेद्धमते स्कन्ध पञ्चकान्तर्गतस्कन्धभेदे बौद्धशब्दे दृश्यम्


शब्दकल्पद्रुमः

वेदनं || क्ली स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि- वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।)
अनुभवः । तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् । दुःखम् । इति मेदिनी ॥ विवाहः । यथा, —



Correction: