शब्दकल्पद्रुमः
वेदना || क्ली स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि- वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।)
अनुभवः । तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् । दुःखम् । इति मेदिनी ॥ विवाहः । यथा, —
“पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥ शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥” इति मानवे ३ अध्यायः ॥ * ॥
पाणीति । समानजातीयासु गृह्यमाणासु हस्त- ग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधी- यते । विजातीयासु पुनरुह्यमानासु विवाह- कर्म्मणि पाणिग्रहणस्थाने अयमनन्तरश्लोके वक्ष्यमाणो विधिर्ज्ञेयः । शर इति । क्षत्त्रियया पाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्त- परिगृहीतकाण्डैकदेशो ग्राह्यः । वैश्यया ब्राह्मणक्षत्त्रियविवाहे बाह्मणक्षत्त्रियविधृत- प्रतोदैकदेशो ग्राह्यः । शूद्रया पुनर्द्वि जातित्रय- विवाहे प्रावृतवसनदशा ग्राह्या । इति कुल्लूक- भट्टः ॥