संस्कृत-शब्दकोशः

वेदना वेदपारग

वेदनिन्दक

वाचस्पत्यम्

वेदनिन्दक ||‍ पु० ६ त० । १ नास्तिके २ बौद्धे च ।


शब्दकल्पद्रुमः

वेदनिन्दकः || पुं, (वेदं निन्दतीति । निन्द + ण्वुल् ।)
नास्तिकः । इति जटाधरः ॥ (यथा, यमः । ३० । “दुर्भगो हि तथा षण्डः पाषंण्डी वेदनिन्दकः ॥”)
बुद्धश्च ॥



Correction: