वाचस्पत्यम्
वेदिका || स्त्री वेदिरिव इवार्थे कन् । मङ्गलकर्मार्थं गृह- द्वारादौ चतुरम्लादिमृत्तिकास्तूपाकारेण निर्मिते भूखण्डे वितर्द्दौ अमरः ।
शब्दकल्पद्रुमः
वेदिका || स्त्री (वेदिरेव । स्वार्थे + कन् ।)
मङ्गल- कर्म्मार्थं निर्म्मितवेदिः । तत्पर्य्यायः । वितर्द्दिः २ । इत्यमरः ॥ वितर्द्दी ३ वेदिः ४ वेदी ५ । इति तट्टीका ॥ द्वे आरामाङ्गनादिमध्यस्थवेदि- कायाम् । देवागारादौ काष्ठादिचतुष्किकाया- मित्यन्ये । दारुपरिवृता त्ततुरस्रा विश्रामभू- र्व्वितर्द्दिरित्यपरे । स्तम्भसंलग्नपीठिका वितर्द्दि- रिति केचित् । मङ्गल्याङ्गनमध्यस्थचतुष्किकेति केचित् । मङ्गलस्थानार्थं निर्म्मितवेदिकेति केचित् । अशुभं वितर्द्दयति वितर्द्दिः । तर्द्द हिंसे नाम्नीति इः । वेदिका साहचर्य्यात् स्त्री इदन्त- त्वात् पक्षे ईप् वितर्द्दी च । वितर्द्दिः काष्ठ- लोही स्यादिति रत्ने । वितर्द्दिरपीति मधुः । विदन्ति विद्यते वा अस्यामिति वेदिः पूर्ब्बवदिः स्वार्थेकः । अतएव वेदिर्वेदी च । इति भरतः ॥ (यथा, कुमारे । ३ । ४४ । “स देवदारुद्रुमवेदिकायां शार्द्दूलचर्म्मव्यवधानवत्याम् ॥”)