वाचस्पत्यम्
वेवी || कान्तौ गतौ व्याप्तौ क्षेपे भोजने च सक० प्रजनने अक० अदा० आत्म० सेट् जक्षादि० वैदिक एवायम् । वेवीते अवेविष्ट । अस्य क्वचिदपि गुणवृद्धी न स्तः ।
शब्दकल्पद्रुमः
वेवी || र क्ष लु ङ कान्तिगतिव्याप्तिक्षेपप्रजनखादने । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-कान्तौ अक०-अन्यत्र सक०-सेट् ।)
र, वैदिकः । क्ष, अवेवयुः । बहुलं ब्रह्मणीति परस्मैपदे अनुस् सिद्वेरित्यन् उस् णुरुस्यठ्यामिति गुणः । लु ङ, वेवीते । इति दुर्गादासः ॥