वाचस्पत्यम्
वेश्य || न० विश—ण्यत् वेशाय हितं वा यत् । १ वेश्यालये मेदि० २ पाठायाम् (आकनादि) ३ वारयोषिति च स्त्री अमरः । “पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता । तृतीये वृषली ज्ञेया चतुर्थे पुंश्चली स्मृता । वेश्या च पञ्चमे षष्ठे जुङ्गी च सप्तमेऽष्टमे । तत ऊर्द्ध्वं महावेश्या सा- ऽस्पृश्या सर्वजातिषु । यो द्विजः कुलटां गच्छे वृषलीं पुंश्चलीमपि । जुङ्गीं वेश्यां महावेश्यामवटोदं प्र- याति सः । शताव्दं कुलटागामी धृष्टागामी चतुर्यु षम् । षड्गुणं पुश्चलीगामी वेश्यागामी गुणाष्टकम् । जुङ्गीगामो दशगुणं बसेत्तत्र न संशयः । महावेश्या गामुकश्च ततः शतगुणं वसेत् । तदेव सर्वगामो चेत्येव- माह पितामहः । तत्रैव यातनां भुङ्क्ते यमदूतेन ता- डिः त तित्तिरिः कुलटागामी धृष्टागामी च वायसः । काकिलः पुं श्चसीगामो वेश्यानामी वृकस्तथा । जुङ्गी गाना शूकरश्च सप्तजन्मस भारते । महावेश्यामामु- कश्च जायते शाल्मलिस्त्ररुः” ब्रह्मवै० प्र० ख० २८ अ
शब्दकल्पद्रुमः
वेश्यं || क्ली (वेशे भवम् । वेश + “दिगादित्वात् यत् ।” ४ । ३ । ५४ । इति यत् । यद्वा, वेश्यायै हितम् । वेश्या + यत् ।)
वेश्यालयः । इति मेदिनी ॥ (प्रवेशार्हे, त्रि । यथा, ऋग्वेदे । ४ । २६ । ३ । “शततमं वेश्यं सर्व्वताता दिवोदासमतिथिग्वं यदावम् ॥” “वेश्यं दिवोदासनाम्ने प्रवेशार्हम् ।” इति तद्भाष्ये सायणः ॥)