संस्कृत-शब्दकोशः

वेश्य वेश्यागण

वेश्या

शब्दकल्पद्रुमः

वेश्या || स्त्री टुण्डुकावृक्षः । आकनादि इति भाषा । इति शब्दचन्द्रिका ॥ (वेशमर्हति वेशेन दीव्यत्याचरति वेशेन पण्ययोगेन जीवति वा । वेश + यत् ।)
स्वनामख्यातनारी । खान्की इति भाषा । तत्पर्य्यायः । वारस्त्री २ गणिका ३ रूपाजीवा ४ । इत्यमरः ॥ वेष्या ५ । इति तट्टीका ॥ क्षुद्रा ६ शालभञ्जिका ७ । इति जटाधरः ॥ झर्झरा ८ शूला ९ वार- विलासिनी १० वारवाणिः ११ भण्डहासिनी १२ । इति शब्दरत्नावली ॥ लञ्जिका १३ बन्धुरा १४ कुम्भा १५ कामरेखा १६ वर्व्वटी १७ । इति शब्दमाला ॥ साधारणस्त्री १८ पण्याङ्गना १९ पणाङ्गना २० भुजिष्या २१ वारबधूः २२ । इति हेमचन्द्रः ॥ भोग्या २३ स्मरवीथिका २४ । इति राजनिर्घण्टः ॥ तस्या लक्षणगमनफलादि यथा, —
“पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता । तृतीये वृषली ज्ञेया चतुर्थे पुंश्चली स्मृता ॥ वेश्या च पञ्चमे षष्ठे युङ्गी च सप्तमेऽष्टमे । तत ऊर्द्ध्वे महावेश्या सास्पृश्या सर्व्वजातिषु ॥ * ॥
यो द्बिजः कुलटाङ्गच्छेत् वृषलीं पुंश्चलीमपि । युङ्गीं वेश्यां महावेश्यां अवटोदं प्रयाति सः ॥ शताब्दं कुलटागामी धृष्टागामी चतुर्युगम् । षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ युङ्गीगामी दशगुणं वसेत्तत्र न संशयः । महावेश्यागामुकश्च ततः शतगुणं भवेत् ॥ तदेव सर्व्वगामी चेत्येवमाह पितामहः । तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ॥ तित्तिरिः कुलटागामी धृष्टागामी च वायसः । कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा ॥ युङ्गीगामी शूकरश्च सप्तजन्मसु भारते । महावेश्यागामुकश्च जायते शाल्मलिस्तरुः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २८ अध्यायः ॥ * ॥
वेश्यागमनपापं प्रकीर्णकम् । तस्य प्रायश्चित्तम् । तत्र सम्बर्त्तः । “पशुवेश्याभिगमने प्राजापत्यं विधीयते ।” तेन वेश्यागमने प्राजापत्यम् । तदशक्तौ धेनु- रेका । एतत् सकृद्गमने । अभ्यासे तु । चान्द्रा- यणेन चैकेन सर्व्वपापक्षयो भवेदिति आप- स्तम्बवचनाच्चान्द्रायणम् । इति प्रायश्चित्त- विवेकः ॥ * ॥
तदन्नादिकं निषिद्धम् । यथा, —
“पुंश्चल्यन्नञ्च यो भुङ्क्ते पुंश्चल्याजीवजीवनः । स्वलोममानवर्षञ्च लालाकुण्डे वसेद्ध्रुवम् ॥ ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततस्त्रिजन्मनि भवेत् कृष्णवर्णः पशुः शुचिः ॥ त्रिजन्मनि भवेच्छागस्ततो भवेत् सुदुःखितः । ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
अपि च । “पुंश्चल्यन्नञ्च यो भुङ्क्ते वेश्यान्नञ्च पतिव्रते । तद्व्रजेत्तु द्बिजो यो हि कालसूत्रं प्रयाति सः ॥ शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् । तत्र जन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ॥” इति तत्रैव २८ अध्यायः ॥ * ॥
यात्राकाले तस्या दर्शनं शुभम् । यथा, —
“धेनुर्व्वत्सप्रयुक्ता वृषतुरगरथा दक्षिणावर्त्तवह्नि- र्दिव्यस्त्रीपूर्णकुम्भा द्विजनृपगणिकाः पुष्पमाला पताका । सद्योमांसं घृतं वा दधि मधु रजतं काञ्चनं शुक्लधान्यं दृष्ट्वा श्रुत्वा पठित्वा फलमिह लभते मानवो गन्तुकामः ॥” इति समयप्रदीपः ॥



Correction: