संस्कृत-शब्दकोशः

वेष्ट वेष्टन

वेष्टक

वाचस्पत्यम्

वेष्टक ||‍ न० वेष्ट—ण्वुल् । (पागडी) १ उष्णीषे शब्दर० । २ कुष्माण्डे राजनि० । ३ प्राचीरे पु० हेमच० । ४ वेष्टनकारके त्रि० ।


शब्दकल्पद्रुमः

वेष्टकं || क्ली (वेष्टते इति । वेष्ट + ण्वुल् ।)
उष्णीषः । इति शब्दरत्नावली ॥ निर्यासः । इति शब्द- माला ॥ श्रीवेष्टः । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

वेष्टकः || पुं, (वेष्टते इति । वेष्ट + ण्वुल् ।)
प्राचीरः । यथा प्राचीनावेष्टकौ वृतिः । इति हेमचन्द्रः ॥ कुष्माण्डः । यथा, —
“कुष्माण्डकः पुष्पफलो घनवासश्च वेष्टकः ॥” इति हारावली ॥ श्रीवेष्टः । इति राजनिर्घण्टः ॥ वेष्टनकारके, त्रि ॥ (यथा, महाभारते । ७ । १३६ । २१ । “बलयैरपरिद्धैश्च तथैवाङ्गुलिवेष्टकैः ॥”)



Correction: