संस्कृत-शब्दकोशः

वेष्टक वेष्टनक

वेष्टन

वाचस्पत्यम्

वेष्टन ||‍ न० वेष्ट—करणे ल्युट् । १ कर्णशष्कुल्याम् २ उष्णीषे २ मुकुटे च ४ गुग्गुलौ शब्दच० । भावे ल्युट् । ५ वृतौ मेदि० ।


शब्दकल्पद्रुमः

वेष्टनं || क्ली (वेष्टते इति । वेष्ट + ल्युः ।)
कर्ण- शस्कुली । उष्णीषः । (यथा, रघुः । ८ । १२ । “तमरण्यसमाश्रयोन्मुखं शिरसा वष्टनशोभिना सुतः ॥”)
मुकुटः । वृतिः । इति मेदिनी ॥ गुग्गुलुः । इति शब्दचन्द्रिका ॥ (वेष्ट + ल्युट् । वलयनम् । यथा, रघुः । ४ । ४८ । “भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ॥”)



Correction: