वाचस्पत्यम्
वैक्रान्त || न० स्वार्थे अण् । मणिभेदे विक्रान्तशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वैक्रान्तं || क्ली (विक्रान्त्या दीव्यति । विक्रान्ति + अण् ।)
मणिविशेषः । तत्पर्य्यायगुणौ । “वैक्रान्तञ्चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं जीर्णवज्रञ्च गोनसः ॥ वज्राभावे च वैक्रान्तं रसवीर्य्यादिके समम् । क्षयकुष्ठविषघ्नञ्च पुष्टिदं सुरसायनम् ॥ वैक्रान्तं वज्रसादृश्यं वज्रवद्रसवीर्य्यकम् । तथाप्यभावे वज्रस्य ग्राह्यं वैक्रान्तमुत्तमम् ॥ वज्राकारतयैव प्रसह्य हरणाय सर्व्वरोगाणाम् । यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥” इति राजनिर्घण्टः ॥