संस्कृत-शब्दकोशः

वैक्रान्त वैखानस

वैखरी

वाचस्पत्यम्

वैखरी ||‍ स्त्री विशेषेण खं राति रा—क स्वार्थे अण् । अर्थ- बोधके कण्ठादिषूच्चार्य्यमाणे वर्णात्मके शब्दविशेषे । वर्ण- शब्दे ४८५० पृ० दृश्यम् ।


शब्दकल्पद्रुमः

वैखरी || स्त्री बुद्ध्युत्थितकण्ठगतनादरूपवर्णः । यथा, —
“मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः । पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः । वक्त्रे वैखर्य्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना- बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसंवः ॥” इत्यलङ्कारकौस्तुभः ॥ अस्यार्थः । यस्तु तारो नादः वर्णरूपः स नाभिरूपमूलाधारात् प्रथममुदयप्राप्तश्चेत् पर इति आस्या संज्ञा यस्य तथाभूतो भवति । अथानन्तरं स एव हृदयं चित्तं गतश्चेत् रोदन- समये नासिकाद्बारा यथाकथञ्चित् भवति । रुरुदिषोर्जन्तोर्नासामध्यस्थितसुषुम्नानाड्या बद्धः । तथा च नासाद्वारैव यथाकथञ्चित् नादस्वरूपः प्रत्यक्षम्भवतीत्यर्थः । तस्मात् वैखरीदशापन्नात् नादात् पवनप्रेरितो वर्णसमूहो बहिः सर्व्वेषां प्रत्यक्षविषयो भवतीत्यर्थः । परा पश्यन्ती दशापन्नस्य तु योगिनामेव प्रत्यक्षे न तु सर्व्वेषा- मित्यपि बोध्यम् । इति तट्टीका ॥



Correction: