वाचस्पत्यम्
वैखानस || पु० वि + खन—ड अन—असुन् कर्म० स्वार्थे अण् । वानप्रस्थे तापसभेदे “वैखानसेभ्यः श्रुतरामवार्त्ताः” भट्टिः
शब्दकल्पद्रुमः
वैखानसः || पुं, (विखनसं ब्रह्माणं वेत्ति तपसा । विखनस् + अण् ।)
वानप्रस्थः । यथा । वानप्रस्थो वैखानसोऽग्रहः । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । १ । १९ । १७ । “वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्य- ताम् ॥” वैखानसस्येदमित्यर्थेऽणि वैखानससम्बन्धिनि, त्रि । यथा, शाकुन्तले । १ । “वैखानसं किमनया व्रतमाप्रदानात् व्यापाररोधि मदनस्य निषेवितव्यम् ॥”)