वाचस्पत्यम्
वैगुण्य || न० विगतो विरुद्धो वा गुणोऽस्य तस्य भावः ष्यञ् । यत्र यदुचितं तस्य १ रूपान्तरतापादने २ अन्यायत्वे ३ अ- सम्पन्नत्वे च ।
शब्दकल्पद्रुमः
वैगुण्यं || क्ली (विगुणस्य भावः । विगुण + ष्यञ् ।)
विगुणत्वम् । विगुणस्य भावः । यथा, —
“यात्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य च । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्बिशतं दमः ॥” मनुः ।