शब्दकल्पद्रुमः
वैचक्षण्यं || क्ली विचक्षणत्वम् । विचक्षणस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, साहित्यदर्पणे । १ । “धर्म्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ॥”)