संस्कृत-शब्दकोशः

वैचक्षण्य वैजनन

वैचित्र्य

वाचस्पत्यम्

वैचित्र्य ||‍ न० विचित्रस्य भावः ष्यञ् । १ नानारूपत्वे २ विलक्षणत्वे च ।


शब्दकल्पद्रुमः

वैचित्र्यं || क्ली विचित्रता । विचित्रस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, राजेन्द्र- कर्णपूरे । २८ । “वैचित्र्यं वितनोति वाचकविधौ वाचस्पते- रन्तिके देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्- देवता ॥”)



Correction: