वाचस्पत्यम्
वैजयन्त || पु० विजयते वि + जि—झ स्वार्थे अण् । १ इन्द्रप्रा- सादे अमरः । २ इन्द्रे मेदि० । ३ गृहे शब्दच० । ४ इन्द्र- ध्वजे मेदि० । ५ अग्निमन्थवृक्षे राजनि० ६ पताकायाम् स्त्री अमरः । ७ वैजन्तीवृक्षे च स्त्री मेदि० ।
शब्दकल्पद्रुमः
वैजयन्तः || पुं, (वैजयन्ती अस्त्यत्रेति । अर्शआद्यच् ।)
इन्द्रप्रासादः । इत्यमरः ॥ इन्द्रध्वजः । इति मेदिनी ॥ (यथा, महाभारते । २ । २२ । १९ । “एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः । येनासुरान् पराजित्य जगत्पतिशतक्रतुः ॥”)
गुहः । इति हेमचन्द्रः ।