वैजयन्तिक
वैजयन्ती
वैजयन्तिका
शब्दकल्पद्रुमः
वैजयन्तिका || स्त्री (वैजयन्ती + स्वार्थे कन् ।)
जयन्तीवृक्षः । पताका । इत्यमरः ॥ (यथा, “निर्धनं निधनमेतयोर्द्वयो- स्तारतम्यविधिमुग्धचेतसा । बोधनाय विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका ॥” इत्युद्भटः ॥)
अग्निमन्थः । इति राजनिर्घण्टः ॥