संस्कृत-शब्दकोशः

वैजयन्तिका वैजयि

वैजयन्ती

शब्दकल्पद्रुमः

वैजयन्ती || स्त्री पताका । इत्यमरः ॥ (यथा, रघुः । ६ । ८ । “सञ्चारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥”)
जयन्तीवृक्षः । इति मेदिनी ॥ अग्निमन्थवृक्षः । इति हेमचन्द्रः ॥ पञ्चवर्णमयी जानुपर्य्यन्त- लम्बिता माला । यथा, —
“उपगीयमान उद्गायन् वनिताशतयूथपः । मालां बिभ्रद्वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥” इति श्रीभागवते १० स्कन्धे ३१ अध्यायः ॥



Correction: