वाचस्पत्यम्
वैडालव्रतिक || पु० वैडालव्रतमस्त्यस्य ठन् । छलेन धर्मचा- रिणि छद्मतापसे त्रिका० । इनि । वैडालव्रतिन् तत्रार्थे “छद्मना चरितं तच्च व्रतं रक्षसि गच्छति । अलिङ्गी लि- ङ्गवेशेन यो लिङ्गमुपजीवति । स लिङ्गिनां हरेत् पापं तिर्य्यग्योनौ च जायते” । वैडालव्रतिनः पापाः सर्वध- र्मविनाशकाः । सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम्” कूर्मपु० ५ अ० ।
शब्दकल्पद्रुमः
वै(बै)डालव्रतिकः || पुं, (विडालव्रतेन चरतीति । विडालव्रत + ठक् ।)
छद्मतपस्वी । तत्पर्य्यायः । छद्मतापसः ३ सर्व्वाभिसन्धी ३ । इति त्रिकाण्ड- शेषः ॥ तस्यासंभाष्यत्वं यथा, —
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥” इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ “यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥” तद्वान् वैडालव्रतिकः । इति तट्टीका ॥