संस्कृत-शब्दकोशः

वैतनिक वैतरणी

वैतरणि

वाचस्पत्यम्

वैतरणि(णी) ||‍ स्त्री वितरणेन दानेन लङ्घ्यते अण् ङीप् वा पृषो० ह्रस्वः । यमद्वारस्थे नदीभेदे “नदी वैतरणी नाम दुर्गन्धा रुधिरावहा । उष्णतोया महावेगा अस्थिकेशतरङ्गिणी” प्रा० वि० जमदग्निः । तस्या उत- पत्त्यादि कालिकापु० १८ अ० उक्तं यथा ||‍“शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा । वाष्पवृष्टिं दुराधर्षामवजग्राह मायया । यदा स नाशकत् वाष्पान् सन्धारयितुमर्कजः । तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके । लोकालोकस्य निकटेजलधाराह्वयो गिरिः । पुष्करद्वोपपृष्ठस्थस्तोयसागरपश्चिमे । स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः । तस्मिन् विन्यस्तवान् वाष्पान् न धर्त्तुं क्षम ईशितुः । विदीर्णस्तैस्तु वाष्पोघैर्मग्नमध्योऽभवद्- दुतम् । ते वाष्पाः पर्वतं भित्त्वा विविशुस्तोयसागरम् । सागरोऽपि ग्रहीतुं तान्न शशाक खरानति । ततस्तु सागरं मध्ये भित्त्वा वाष्पाः समागताः । तोयधेः प्राग्- भवां वेलां स्पर्शमात्राद्बिभेद ताम् । विभिद्यं वेलां ते वाष्पाः पुस्करद्वीपमध्यगाः । नदी वैतरणी भूत्वा पूर्व- सागरगाऽभवत् । जलधारस्य वेगेन संसर्गात् सागरस्य च । अवाप्य सौम्यतां किञ्चिद् वाष्पास्ते नाभिदन् क्षि- तिम् । तद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः । अवजग्राह तान् वाष्पान् सोऽपि कृष्णोऽभवद्धठात् । शनै- श्चरेण तं वोढुमसमर्थेन लोतकैः । क्षिप्तैर्विदारितः सो- ऽसौ जलधारो महागिरिः । विभिद्य पर्वतं शम्भोर्वा- ष्पास्ते सागरं ययुः । वैवस्वतपुरद्वारे योजनद्वयविस्तृता । अद्यापि तिष्ठत्यापगा हरलोतकसम्भवा । भित्त्वा वेलां ततः पृथ्वीं विभिद्याशु तरङ्गिणीम् । चक्रुर्वैतरणीं नाम्न पूर्वसागरगामिनीम् । नानायानविमानेन न द्रौण्या स्यन्दनेन च । तर्त्तुंशक्या सा तु नदी तप्ततोया विभी- षणा । दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना । सदा चोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान् । तस्या उपरि नो यान्ति देवा अपि भयाद्धरात् । यमद्वारं समावृत्य योजन द्वयविस्तृता । निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम्” २ पितृकन्याभेदे “अयज्वानश्च यज्वानः पितरो ब्रह्मणः स्मृताः । अग्निष्वात्ता बर्हिषदो द्विधा तेर्षा व्यवस्थितिः । तेभ्यः स्वधा, स्वधा जज्ञे मेनां वैतरणीं तथा” कूर्म्मपु० १२ अ० । वितरत्यनया तॄ—करणे ल्युट् ङीप् । आसन्न मृत्युकाले दातव्यायां ३ गवि च “आसन्नमृत्युना देया गौः सवत्सा च पूर्ववत् । तदभावे च गौरेका नरकोद्धारणाय वे । तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् । शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च” । पूर्ववत् हेमशृङ्गादिना अत्र मृतस्य सेति चकारश्रवणात् एकादशाहेऽपि वैतरणीदानाचारः” शु० त० रघु० । “यमद्वारे महाघोरे तप्ता वैतरणी नदी । ताञ्च तर्त्तुं ददाम्येनां कृष्णां वैतरणीञ्च गाम्” शु० त० ।


शब्दकल्पद्रुमः

वैतरणिः || स्त्री नरकसिन्धुः । इत्यमरः ॥ “वित- रणेन दानेन तीर्य्यते वैतरणी । ष्णः षित्त्वादीप् ष्णौ वैतरणिश्च । अटविपटिघाटी- वैतेरण्यर्च्चिशुण्ठीरिति ह्नस्वान्तेषु रुद्रः । ततो- ऽपि पाच्छोणादीति वा ईप् । विरुद्धं तरणं वितरणं तदस्यामस्तीति वैतरणीत्यन्ये । वित- रणौ विसूर्य्ये पाताले भवा वैतरणीत्यन्ये । वितरणिर्विनौका तरणशून्येत्यर्थः स्वार्थे ष्णे वैतरणीत्येके । सिन्धुर्नदी ।



Correction: