संस्कृत-शब्दकोशः

वैतस वैतानिक

वैतंसिक

वाचस्पत्यम्

वैतंसिक ||‍ त्रि० वितंसेन मृगंपक्ष्यादिबन्धनोपायेन चरति ठक् मांसविक्रयोपजीवके व्याधे अमरः ।


शब्दकल्पद्रुमः

वैतंसिकः || त्रि (वीतंसो मृगपक्ष्यादिबन्धनोपाय- स्तेन चरतीति । वितंस + “चरति ।” ४ । ४ । ८ । इति ठक् ।)
मांसविक्रेता । तत्पर्य्यायः । कौटिकः २ मांसिकः ३ । इत्यमरः ॥ कौट- किकः ४ । इति शब्दरत्नावली ॥ मृगपक्ष्यादिबन्ध- नोपायो वीतंसः तेन चरतीति वैतंसिकः । इति भरतः ॥ (यथा, महाभारते । ३ । ३३ । ३३ । “इमान् शकुनकान्राजन् हन्ति वैतंसिको यथा । एतद्रूपमधर्म्मस्य भूतेषु हि विहिंसता ॥”)



Correction: