वाचस्पत्यम्
वैतानिक || पु० वितानस्यायम् ठक् । १ श्रौतविधिनाऽग्निस्था- पने २ वितानसम्बन्धिनि च “दाहादूर्द्ध्वमशौचं स्यात् यस्य वैतानिको विधिः” स्मृतिः । वितानशब्दे ४८९९ दृश्यम् ।
शब्दकल्पद्रुमः
वैतानिकः || पुं, (विताने भवः । वितान + ठक् ।)
श्रौतहोमः । यथा, —
“मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना । दाहादूर्द्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥” इति शुद्धितत्त्वम् ॥ वितानसम्बन्धीये, त्रि । वितानशब्दात् ष्णिक- प्रत्ययेन निष्पन्नमेतत् ॥ (यज्ञादिकार्य्यकारी । यथा च भागवते । १० । ४० । ५ । “त्रय्या च विद्यया केचित् त्वां वै वैतानका द्विजाः । यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥”)