वाचस्पत्यम्
वैदूर्य्य || न० विदूरे गिरौ भवः ष्यञ् । कृष्णपीतवर्णे विडाल- नेत्रतुल्य वर्णे मणिभेदे केतुरत्ने (लसुनिया) राजनि० । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् । चाक्षुष्यं धारणा- त्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः । तच्छाया- लक्षणं यथा “एकं वेणुपलाशकोमलरुचा मायूरकण्ठ- त्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया । यद्गात्रं गुरुतां दधाति नितरां स्निग्धन्तु दोषोज्वितं वैदुर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छोभनम् । तस्य कुलक्षणं यथा “विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतो नयेत्” । तत्परीक्षा यथा । “घृष्टं यदात्मना स्वच्छं स्वच्छायां नि- कषाश्मनि । स्फुटं प्रदर्शयेदेतद्विअदूर्य्यं जात्यमुच्यते” । राजनि० “वैदूर्य्यपुष्परागाणां कर्केतभीष्मके वदे । प- रीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज! । कल्पा- न्तकालक्षुभिताम्बुराशिनिर्ह्रादकल्पाद्दितिक्षस्य नादात् । वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्यूतिवर्णवीजम् । अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः । कामभूतिकसीमान- मनु तस्याकरोऽभवत् । तस्य नादसमुत्थत्वादाकरः सुम- हागुणः । अभूदुत्तरितो लोके लोकत्रयविभूषणः । तस्यैव दानवपतेर्निनदानुरूपप्रावृट्पयोदरवदर्शितचारु- रूपाः । वैदूर्य्यरत्नमणयो विविधावभासास्तस्मात् स्फुलि- ङ्गनिवहा इव संबभूवुः । पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ । सर्वांस्तान् वर्णः शोभाभिर्वैदूर्यमनुगच्छति । तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्र- काशम् । चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः । गुणवान् वैदूर्य्यमणिर्योजयति स्वा- मिनं वरभाग्यै । दोषैर्युक्तोदोषैस्तस्माद् यत्नात्परी- क्षेत । गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि- निर्भिन्नाः । वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति । लिक्षाभावात् काचं लघुभावाच्छैशुपालकं विद्यात् । गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन । यदि- न्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् । तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितं गौरवस्य । जात्यस्य सर्वेऽपि मणेस्तु यादृक् विजातयः सन्ति समान- वर्णाः । तथापि नानाकरणानुमेयभेदप्रकारः परमः प्र- दिष्टः । सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नवेन । स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम् । कुशलाकुशलैः प्रयुज्यमानाः प्रतिवद्धाः प्रति- सत्क्रिया प्रयोगैः । गुणदोषसमुद्भवं लभन्ते मणयोऽर्था- न्तरमूल्यमेव मिन्नाः । क्रमशः समतीतवर्त्तमानाः प्रतिवद्धा मणिबन्धकेन यस्मात् । यदि नाम भवन्ति दाषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् । आकरान् समती- तानामुदधेस्तीरसन्निधौ । मूल्यमेतत् खनीनान्तु न सर्वत्र महीतले । सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः । तस्य सप्ततिमोभागः संज्ञारूपं करिष्यति । शाणश्चतु- मांषमानो माषकः पञ्चकृष्णलः । पलस्य दशमोभागो धरणः परिकीर्त्तितः । इति मानविधिः प्रोक्तो र- त्नानां मूल्यनिश्चये” । गारुडे ७३ अ० । “सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत् । वैदूर्व्यनाम तद्रत्नं रत्नविद्भिरुदाहृतम् । ब्रह्मक्षत्रियविट्शूद्रजातिभेदा- श्चतुर्विधाः । सितनीलो भवेद्विपः सितरक्तस्तु वा- हुजः । पीतनीलस्तु वैश्यः स्यात् नील एव हि शू- दूकः” । अथ गुणाः “मार्ज्जारनयनप्रख्यं रसोनप्र- तिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूष- णम् । सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च । वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः” । “उद्गिरन्निव दीप्तिं योऽसौ सुतार इतीर्य्यते । प्र- माणतोऽल्पं गुरु यद् घनमित्यभिधीयते । कलङ्कादि- विहीनं तदत्यच्छमिति कीर्त्तितम् । ब्रह्मशस्त्रकलाकार- श्चञ्चलो यत्र दृश्यते । कलिलं नाम तद्राज्ञः सर्वसम्पत्ति- कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते । कर्करं कर्कशं त्रासः कलङ्का देह इत्यपि । एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः । शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि यत्तज्ज्ञेय च कर्कशं बन्धुनाशनम् । भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसं- क्षयम् । बिरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः । मल- दिग्ध इवाभाति देहो देहविनाशनः । जयति यदि सुवर्णत्यागहीनो यदा वा बहुविधमणिहारी भूपति र्वा यति र्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिह- तफलरूपः पातमेष्यत्यवश्यम्” । युक्तिकल्पतरुः ।
शब्दकल्पद्रुमः
वैदूर्य्यं || क्ली (विदूरात् प्रभवतीति । विदूर + “विदूरात् ञ्यः ।” ४ । ३ । ८४ । इति ञ्यः ।)
मणिविशेषः । स तु कृष्णपीतवर्णः । लहसुनीया इति हिन्दी भाषा । अस्य देवता केतुः । तत्पर्य्यायः । बालवायजम् २ । इति हेमचन्द्रः ॥ केतुरत्नम् ३ कैतवम् ४ प्रावृष्यम् ५ अभ्र- रोहम् ६ खराब्दाङ्कुरकम् ७ विदूररत्नम् ८ विदूरजम् ९ । अस्य गुणाः । अम्लत्वम् । उष्ण- त्वम् । कफवायुनाशित्वम् । गुल्मशूलप्रशमन- त्वम् । भूषितञ्चेत् शुभावहत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् । चाक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजवल्लभः ॥ * ॥
तच्छायलक्षणं यथा, —
“एकं वेणुपलाशकोमलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया । यद्गात्र गुरुतां दधाति नितरां स्निग्धन्तु दोषोषितं वैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो- भनम् ॥” तस्य कुलक्षणं यथा, —
“विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतां नयेत् ॥” तत्परीक्षा यथा, —
“घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वैदूर्य्यं जात्यमुच्यते ॥” इति राजनिर्घण्टः ॥ * ॥
सूत उवाच । “वैदूर्य्यपुष्परागाणां कर्क्केतभीष्मके वदे । परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज ॥ कल्पान्तकालक्षुभिताम्बुराशि- निर्ह्रादकल्पाद्दितिजस्य नादात् । वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्युतिवर्णबीजम् ॥ अविदूरे वैदूर्य्यस्य गिररुत्तुङ्गरोधसः । कामभूतिकसीमानमनु तस्याकरोऽभवत् ॥ तस्य नादसमुत्थत्वादाकरः सुमहागुणः । अभूदुत्तरितो लोके लोकत्रयविभूषणः ॥ तस्यैव दानवपतेर्निनदानुरूप- प्रावृट्पयोदवरदर्शितचारुरूपाः । वैदूर्य्यरत्नमणयो विविधावभासा- स्तस्मात् स्फुलिङ्गनिवहा इव सम्बभूवुः ॥ पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ । सर्व्वांस्तान् वर्णशोभाभिर्वैदूर्य्यमनुगच्छति ॥ तेषां प्रधानं शिखिकण्ठनीलं यद्बा भवेद्वेणुदलप्रकाशम् । चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः ॥ गुणवान् वैदूर्य्यमणिर्योजयति स्वामिनं वरभाग्यैः । दोषेर्युक्तो दोषैस्तस्माद्यत्नात् परीक्षेत ॥ गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि- निर्भिन्नाः । वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ॥ लिख्याभावात् काचं लघु भावाच्छैशुपालकं विद्यात् । गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् । तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितगौरवस्य ॥ जातस्य सर्व्वेऽपि मणेस्तु यादृग्- विजातयः सन्ति समानवर्णाः । तथापि नानाकरणानुमेय- भेदप्रकारः परमः प्रदिष्टः ॥ सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नरेण । स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्व्वजन्यम् ॥ कुशलाकुशलैः प्रयुज्यमानाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः । गुणदोषसमुद्भवं लभन्ते मणयोऽर्थान्तरमूल्यमेव भिन्नाः ॥ क्रमशः समतीतवर्त्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् । यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥ आकरान् समतीतानामुदधेस्तीरसन्निधौ । मूल्यमेतन्मणीनान्तु न सर्व्वत्र महीतले ॥ सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः । तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति ॥ शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः । पलस्य दशमो भागो धरणः परिकीर्त्तितः ॥ इति मानविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥” इति गारुडे वैदूर्य्यपरीक्षा ७३ अध्यायः ॥ * ॥
अन्यच्च । “सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत् । वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाच्चतुर्व्विधम् । सितनीलो भवेद्विप्रः सितारक्तस्तु बाहुजः ॥ पीतानीलस्तु वैश्यः स्यात् नील एव हि शूद्रकः ॥” अथ गुणाः । “मार्ज्जारनयनप्रख्यं रसोनप्रतिमं हि वा । कलिलं निर्म्मलं व्यङ्गं वैदूर्य्यं देवभूषणम् ॥ सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च । वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः ॥” तद्यथा, —
“उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यते प्रमाणताल्पं गुरु यत् घनमित्यभिधीयते ॥ कलङ्कादिविहीनं तदत्यच्छमिति कीर्त्तितम् । ब्रह्मशूद्रं कलाकारश्चञ्चलो यत्र दृश्यते ॥ कलिलं नाम तद्राज्ञः सर्व्वसम्पत्तिकारकम् । विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥ * ॥
कर्करं कर्कशं त्रासः कलङ्को देह इत्यपि । एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥ शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि च यत्तज्ज्ञेयं कर्कशं बन्धुनाशनम् । भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसंक्ष- यम् विरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः । मलदिग्ध इवाभाति देहो हेहविनाशनः ॥ जयति यदि सुवर्णं त्यागहीनो यदा वा बहुविधमणिहारी भूपतिर्व्वा यतिर्व्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिशतफलरूपः पातमेध्यत्यवश्यम् ॥” इति युक्तिकल्पतरौ वैदूर्य्यपरीक्षा ॥ अन्यत् गरुडपुराणवत् ॥