संस्कृत-शब्दकोशः

वैदूर्य वैदेहक

वैदेह

वाचस्पत्यम्

वैदेह ||‍ पु० विशेषेण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यण विदेहे भवः अण् वा । १ वणिग्जने मरतः । शूद्रात् वैश्यजाते २ जातिभेदे पुंस्त्री० मेदि० स्त्रियां ङीष् । ठक् । वैदेहिकोऽपि वणिजि । विदेहानां राजा अण् । ३ विदेहराजे जनके नृपे ।


शब्दकल्पद्रुमः

वैदेहः || पुं, बणिक् । इत्यमरटीकायां भरतः ॥ (विदेहस्यापत्यमिति । विदेह + अञ् ।)
निमि- राजपुत्त्रः । अस्योत्पत्तिर्यथा । अपुत्त्रस्य तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च कुमारो जज्ञे । जननाज्जनक- संज्ञां चासाववाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथनान्मिथिरभूत्तस्योदावसुः पुत्त्रो- ऽभवत् । इति विष्णुपुराणे ४ अंशे निमिवंश- कथनं नाम ५ अध्यायः ॥ तस्य विदेहनाम- कारणं निमिशब्दे द्रष्टव्यम् ॥ (वर्णसङ्करजाति- विशेषः । स तु वैश्यात् ब्राह्मण्यां जातः । यथा, मनुः । १० । ११ । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)



Correction: