संस्कृत-शब्दकोशः

वैदेह वैदेहिक

वैदेहक

शब्दकल्पद्रुमः

वैदेहकः || पुं, (वैदेह एव । स्वार्थे कन् ।)
बणिक् । इत्यमरः ॥ शूद्रात् वैश्यासुतः । इति मेदिनी ॥ (वैश्याद्ब्राह्मण्यां जातो वर्णसङ्करविशेषः । यथा, मनुः । १० । १९ । “वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥” अस्यान्तःपुररक्षणं कार्य्यम् । यथा, तत्रैव । १० । ४७ । “वैदेहाकानां स्त्रीकार्य्यं मागधानां बणिक्- पथः ॥”)



Correction: