संस्कृत-शब्दकोशः

भ्लक्ष भ्लाश्

भ्लक्ष्

भ्लक्ष अदने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- भ्लक्षति–ते

अर्थ−
१. खानु ।

कृदन्तरूपमाला

  • 1“भ्लक्ष अदने” 2 ‘भक्ष’ इति क्षीरस्वामी इति मा।
  • धातुवृत्तावुक्तम्।
  • पुरुषकारेऽप्येवमेव।
  • ‘भक्ष’ इति मैत्रेयः।
  • ‘प्लक्ष’ इति दुर्गः।
  • मुद्रितक्षीरतराङ्गिण्यां तु ‘भ्लक्ष--’ इत्येव पाठो दृश्यते।
  • चुरादिषु भक्ष 3 धातौ क्षीरस्वामिनैव ‘भक्षतेर्घञ्- भक्षः।’ इत्युक्तत्वात् अदनार्थकस्य भक्षतेर्भ्वादिषु कुत्राप्यपाठात्, एनमेव 4 भक्षतिं मनुते इति भाति।
  • दुर्गादयस्तु धातुममुं ‘प्लक्ष--’ इति पठन्ति।
  • “तस्य शिरः छित्त्वा मेघं प्राक्षारयन्, स प्रक्षोऽभवत्।
  • तत् प्रक्षस्य प्रक्षत्वम्-यत् प्लक्षशाखा--” 5 इति श्रुत्यनुसारेण प्रपूर्वकात् क्षरतेः पचाद्यचि कपिलकादेराकृतिगणत्वात् 6 उपसर्गस्थरेफस्य लत्वे च प्लक्षशब्दव्युत्पादनं कृतवतो भाष्यकारस्य न सम्मतमिति, अन्यथा 7 अस्मादेव पचाद्यचि प्लक्षशब्दसिद्धेः, श्रौतनिर्वचनस्याप्रसक्तेरिति मनीषया च सुदूरं विचार्य माधवधातुवृत्तौ पाठोऽयं निरस्त इति ज्ञेयम्।
  • शतपथब्राह्मणे 8 ‘प्रख्यो हवै नामैतत् यत् प्लक्षः।’ इत्युक्तमपीह ध्येयम्।
  • भ्लक्षकः-क्षिका, भ्लक्षकः-क्षिका, बिभ्लक्षिषकः- षिका, बाभ्लक्षकः-क्षिका;
  • भ्लक्षिता-त्री, भ्लक्षयिता-त्री, बिभ्लक्षिषिता-त्री, बाभ्लक्षिता-त्री;
  • इत्यादीनि सर्वाणि रूपाणि भौवादिकध्रजतिवत् 9 ज्ञेयानि।
  • अस्य धातोः उभयपदि- त्वात् शानचि-भ्लक्षमाणः, भ्लक्षिष्यमाणः, इति विशेषः।
  • ल्यपि- 10 प्रभ्लक्ष्य इति।

प्रासङ्गिक्यः

  • ↑ (११९४)
  • ↑ (१-भ्वादिः-८९३। अक। सेट्। उभ।)
  • ↑ (२१)
  • ↑ [पृष्ठम्०९८७+ २८]
  • ↑ (मैत्रायणीयसंहिता-६-३-१०-२)
  • ↑ (वा। ८-२-१८)
  • ↑ (प्लक्षधातुसद्भावे)
  • ↑ (३-८-३-१२)
  • ↑ (९२६)
  • ↑ आ। ‘लाषेण चाषांश्छषितान् झषित्वा प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ धा। का। २। २८।



Correction: