वाचस्पत्यम्
वैधृति || पु० विगता धृतिर्यस्मात् पृषो० वृद्धिः । विष्कम्भादिषु मध्ये १ अन्तिमे योगे । सूर्य्यचन्द्रयोः क्रान्तिसास्येना- नीते अशुभसूचके २ वह्निभेदे तत्र वैधृतशब्दोऽपि यथोक्तं सू० सि० “एकायनगतौ स्यातां सूर्य्यावन्द्रमसौ यदा । तद्युते मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः” । पातशब्दे ४३८९ पृ० विस्तरा दृश्यः । उपयमशब्दे १२६५ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वैधृतिः || पुं, विष्कम्भादिसप्तविंशतियोगान्तर्गतशेष- योगः । तस्य त्याज्यत्वं यथा, —
“परिघस्य त्यजेदर्द्धं सप्त शूले च नाडिकाः । गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्ज्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलं यथा, कोष्ठीप्रदीपे । “मैत्रीविहीनः कुटिलः खलश्च मूर्खो दरिद्रः परवञ्चकश्च । कुकर्म्मकर्त्ता परदारभर्त्ता भवेन्नरों वैधृतिलब्धजन्मा ॥” अमृतयोगे तस्य वर्ज्यत्वमवर्ज्यत्वञ्च यथा, —
“यदि वृष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥ हन्त्यमृताख्यो योगः सर्व्वाण्यशुभानि हेलया नियतम् । न भवति पुनरिह शक्तो वैधृतिवृष्टिव्यतीपाते ॥” इति ज्योतिस्तत्त्वम् ॥ (देवताविशेषः । यथा, भागवते । ८ । १ । २९ । “देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥”)