संस्कृत-शब्दकोशः

वैनाशिक वैन्य

वैनीतक

वाचस्पत्यम्

वैनीतक ||‍ पु० न० । विशेषेण नीतं नयनं तेन कायति कै—क स्वार्थ अण् । परम्परया वाहने शिविकादौ अमरः ।


शब्दकल्पद्रुमः

वैनीतकः || पुं, क्ली, परम्परावाहनम् । इत्यमरः ॥ आरूढं वाह्यं यत् साक्षात् न वहति परम्परयैव वहति तद्वैनीतकम् । यथा दोलां वहन् दोला- वाहकः विनीयते स्मेति क्तात् विकारसंघेति के विनीतकः तेनैव स्वार्थे ष्णे वृद्धौ वैनीतकम् । इति भरतः ॥ विनीतसम्बन्धिनि, त्रि ॥



Correction: