वाचस्पत्यम्
वैन्य is an alternate of वैण्य. वैण्य(न्य) || पु० वेण(न)स्यापत्यम् यञ् । १ वेणसुते पृथुनामवे नृपभेदे जटा० ।
शब्दकल्पद्रुमः
वैन्यः || पुं, (वेनस्यापत्यं पुमान् । वेन + “कुर्व्वा- दिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः ।)
वेनपुत्त्रः । स तु पृथुराजः । यथा, —
“वेनस्य मथिते पाणौ स बभूव महापुमान् । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः । येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात् ॥” इति वह्रिपुराणे सर्गानुशासननामाध्यायः ॥ (यथाच ऋग्वेदे । ८ । ९ । १० । “पृथी यद्बां वैन्यः सादनेष्वेव ।” “वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।” इति तद्भाष्ये सायणः ॥)