संस्कृत-शब्दकोशः

वैमात्रा वैमात्रेयी

वैमात्रेय

वाचस्पत्यम्

वैमात्रेय ||‍ पु० विमातुरपत्यं ढक् । १ सापत्ने भ्रातरि अमरः २ तथामूतभगिन्यां स्त्री ङीप् ।


शब्दकल्पद्रुमः

वैमात्रेयः || पुं, (विमातुरपत्यम् । विमातृ + “शुभ्रा- दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।)
विमातृपुत्त्रः । तत्पर्य्यायः । विमातृजः २ वैमात्रः ३ । इति जटाधरः ॥ (“तयोरभावे तथाविधौ वैमा- त्रेयौ ।” इति शुद्धितत्त्वे प्रेतश्राद्धाधिकारि- प्रस्तावे ॥)



Correction: