संस्कृत-शब्दकोशः

वैराग्य वैराट्या

वैराट

वाचस्पत्यम्

वैराट ||‍ त्रि० विराटस्येदम् अण् । १ विराटसम्बन्धिनि । वीर इ वाटति अट—अच् स्वार्थे अण् । २ इन्द्रगोपकीटे हेमच० ।


शब्दकल्पद्रुमः

वैराटः || पुं, इन्द्रगोपकीटः । इति हेमचन्द्रः ॥ विराटसम्बन्धिनि, त्रि ॥ (क्ली, विपाटपर्व्व । यथा, महाभारते । १ । २ । ५७ । “आरण्येयन्ततः पर्व्व वैराटन्तदनन्तरम् ॥” विराटकन्यायां स्त्री । यथा, तत्रैव । १ । २ । ५८ । “अभिमन्योश्च वैराठ्या पर्व्व वैवाहिकं स्मृतम् ॥” तथा च देवीभागवते । २ । ७ । ४ । “अभिमन्योर्वरा भार्य्या वैराटी चाति- सुन्दरी ॥” विस्तृते च त्रि । यथा, महाभारते । १३ । ७९ । २१ । “वैराटपृष्ठमुक्षाणं सर्व्वरत्नैरलङ्कृतम् । प्रदाय मरुतां लोकान् स राजन् प्रतिपद्यते ॥”)



Correction: