वाचस्पत्यम्
वैवस्वत || पु० विवस्वतोऽपत्यम् तस्येदं वा अण । १ यमे अमर- २ अग्नौ ३ रुद्रभेदे च जटा० । ४ तत्सम्बन्धिनि त्रि० “वैव- स्वतकरक्रिया” इत्युद्भटः । ५ दक्षिणदिशि स्त्री ङीप् । ६ सप्तमे मनुभेदे “मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्त्तमानोऽयस्तदपत्यानि मे शृणु! । इक्ष्वाकुर्न भसश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते । वृषणश्च पृषध्रश्च दशमो बसुमान् स्मृतः । मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप! । आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणाः । अश्विनी वृषभो राजन्! इन्द्रस्तेषां पुरन्दरः । कश्यपोऽत्रिर्वशिष्ठश्च विश्वामित्रश्च गोतमः । यमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः । अत्रापि भगवज्जन्म कश्यपाददितेरभूत् । आ- दित्यानामवरजो विष्णुर्वामनरूपधृक् । संक्षेपतो मयो- क्तानि सप्त मन्वन्तराणि ते” भाग० ८ १२ अ० ।
शब्दकल्पद्रुमः
वैवस्वतः || पुं, (विवस्वतोऽपत्यमिति । अण् ।)
यमः । इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ६९ । २३ । “एवं शशः सप्ततिहायनोऽयं वैवस्वतस्यालयमभ्युपैति ॥” यथा च ऋग्वेदे । १० । १४ । १ । “वैवस्वतं संगमनं जनानां यमं राजानं हविषादुवस्य ॥” “वैवस्वतं विवस्वतः सूर्य्यस्य पुत्त्रम् ।” इति तद्- भाष्ये सायणः ॥ यथा च राजतरङ्गिण्याम् । ४ । १५१ । “वनराजिश्यामलेन दिशं वैवस्वताङ्किताम् ॥”)
रुद्रविशेषः । इति जटाधरः ॥ शनिः । सप्तमो मनुः । (यथा, रघुवंशे । १ । ११ । “वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ॥”)
वर्त्तमानोऽयम् । अस्मिन्मन्वन्तरे वामनोऽव- तारः । पुरन्दरः इन्द्रः । आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृषभः । इत्याद्या देवा । कश्यपः अत्रिः वशिष्ठः विश्वामित्रः गोतमः जमदग्निः भरद्वाजः एते सप्तर्षयः । इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकः नरिष्यन्तः पृषध्रः नाभागः कविः एते मनुपुत्त्रा दश । इति श्रीभागवतमतम ॥ * ॥
अपि च । “सप्तमञ्च प्रवक्ष्यामि यद्वैवस्वतमुच्यते । अत्रिश्चैव वशिष्ठश्च कश्यपो गौतमस्तथा ॥ भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् । यमदग्निश्च सप्तैते सांप्रतं ये महर्षयः ॥ साध्या विश्वाश्च रुद्राश्च मरुतो वसवोऽश्विनौ । आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः ॥ इक्ष्वाकुप्रमुखाश्चास्य दशपुत्त्राः स्मृता भुवि । मन्वन्तरेषु सर्व्वेषु सप्त सप्त महर्षयः ॥ कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमं पदम् ॥” इति मात्स्ये मन्वन्तरानुकीर्त्तनो नाम ९ अः ॥ अन्यच्च । श्रीमार्कण्डेय उवाच । “आदित्या वसवो रुद्राः साध्या विश्वे मरुद्- गणाः । भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥ आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः । साध्याश्च मरुतो विश्वे धर्म्मपुत्त्रा गणास्त्रयः ॥ भृगोस्तु भृगवः पुत्त्राः ह्यङ्गिरोऽङ्गिरसः सुताः । एष सर्गस्तु मारीचो विज्ञेयः सांप्रताधिपः ॥ तेजस्वी नाम चेन्द्रोऽपि महात्मा यज्ञभागभुक् । अतीतानागता ये च वर्त्तन्ते ये च सांप्रतम् ॥ सर्व्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः । सहस्राक्षाः कुलिशिनः सर्व्व एव पुरन्दराः ॥ मघवन्तो वृषाः सर्व्वे शृङ्गिणो गजगामिनः । ते शतक्रतवः सर्व्वे भूताभिभवतेजसः ॥ धर्म्माद्यैः कारणैरेतैराधिपत्यगुणान्विताः । भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ॥ भूर्लोकोऽयं स्मृतो भूमिरन्तरीक्षं भुवः स्मृतम् । स्वराख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥ अत्रिश्चैव वशिष्ठश्च कश्यपश्च महानृषिः । गौतमश्च भरद्बाजो विश्वामित्रश्च कौशिकः ॥ तथैव पुत्त्रो भगवानृचीकस्य महात्मनः । जमदग्निश्च सप्तैते मुनयोऽत्र तथान्तरे ॥ इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागो दिष्ट एव च ॥ करूषश्च पृषध्रश्च भूमिपा लोकविश्रुताः । मनोर्व्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः ॥ वैवस्वतमिदं देवि ! कथितं ते मयान्तरम् । अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम । मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरं समाप्तम् ॥