वाचस्पत्यम्
वैशम्पायन || पु० व्यासशिष्ये भारतवक्तरि मुनिभेदे । स च व्यासादिष्टः जनमेजयाय भारतं श्रावितवान् यथोक्तं भा० आ० १ अ० “जनमेजयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके । स सदस्यैः स- हासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चो- द्यमानः पुनःपुनः” । स च यजुर्वेदे तस्य शिष्यः यथाह “अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् । जैमि- निञ्च सुमन्तुञ्च वैशम्पायनमेव च । पैलं तेषां चतुर्थञ्च पञ्चमं मां महामुमिः । ऋग्वेदश्रावकं पैलं जग्राह स महामुने! । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च” कौर्मपु० ४९ अ० ।
शब्दकल्पद्रुमः
वैशम्पायनः || पुं, (विशम्पस्य गोत्रापत्यम् । “अश्वा- दिभ्यः फञ् ।” ४ । १ । ११० । इति फञ् ।)
मुनिविशेषः । यथा, —
“अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् । जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च ॥ पैलं तेषां चतुर्थञ्च परमं मां महामुनिः । ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः । यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥” इति कौर्म्मे ४९ अध्यायः ॥ स च वज्रवारकः । यथा, —
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥” इति पुराणम् ॥