संस्कृत-शब्दकोशः

वैशस्त्र वैशाखी

वैशाख

वाचस्पत्यम्

वैशाख ||‍ पु० विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सा यत्र मासे पुनः अण् । स्वनामख्याते चैत्रतो द्वितीये १ चान्द्रमासे २ गुरुवर्षभेदे च कार्त्तिकशब्दे १९४९ पृ० दृश्यम् । चान्द्रवैशाखलक्षणं तु मेषस्थरव्याव्धशुल्क- प्रतिपदादिदर्शान्तत्रिंशत्तिथित्वम् । मेषस्थरविके ३ सौर- तन्मासे “तुलामकरमेषेषु प्रातःस्नानं विधीयते । हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्” । तन्मा- सस्य ४ पौर्णमास्यां स्त्री ङीप् । विशाखा प्रयोज- नमस्य अञ् । ५ मन्थानदण्डे पु० ६ धनुर्द्धराणामवस्था- नभेदे न० अमरः ।


शब्दकल्पद्रुमः

वैशाखं || क्ली (विशाख एव । स्वार्थे अण् ।)
धनु- र्व्विदां सं स्थानभेदः । यथा, —
“स्थानान्यालीढवैशाखप्रत्यलीढानि मण्डलम् । समपादञ्च — ॥” इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ११० । ४४ । “वज्रपातनिभं वेगं पातयित्वा ममोपरि । भूयः प्रहर्त्तुकामो मां वैशाखेनास्थितो महीम् ॥” पुरविशेषः । यथा, कथासरित्सागरे । ६७ । ५ । “वै शाखाख्ये पुरे राज्ञः पुत्रावावां द्विमातृकौ ॥”)


शब्दकल्पद्रुमः

वैशाखः || पुं, (विशाखा प्रयोजनमस्य । विशाखा + “विशाखाषाढादिति ।” ५ । १ । ११० । इति अण् ।)
मन्थानदण्डः । (यथा, शिशुपाल- वघे । ११ । ८ । “द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ॥” वैशाखी पौर्णमासी अस्मिन् । “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।)
द्बादशमासान्तर्गतप्रथममासः । तत्पर्य्यायः । माधवः २ राधः ३ । इत्यमरः ॥ चान्द्रस्य तस्य लक्षणम् । “विशाखातारकायुक्ता वैशाखी पूर्णिमा भवेत् । सा वैशाखी यत्र मासे स वैशाखः प्रकीर्त्तितः ॥” इति शब्दरत्नावली ॥ स तु मेषस्थरविकः सौरः । तत्र जातफलम् । “पुमान् विनीतो द्बिजदेवभक्तो धर्म्मस्य कर्त्ता सुजनस्य भर्त्ता । गुणाभिरामोऽथ जगत्प्रियः स्यात् वैशाखमासे खलु जन्म यस्य ॥” इति कोष्ठीप्रदीपः ॥ * ॥
अथ वैशाखकृत्यम् । तत्र पद्मपुराणम् । “तुलामकरमेषेषु प्रातःस्नानं विधीयते । हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥” वैष्णवामृते । “गवामर्द्धप्रसूतानां लक्षं दत्त्वा तु यत् फलम् । तत् फलं लभते राजन् मेषे स्नात्वा तु जाह्र- वीम् ॥” पितामहः । “कार्त्तिकस्य तु यत् स्नानं माघे मासि विशेषतः । कृच्छ्रांदिनियमानाञ्च चान्द्रमानप्रमाणतः ॥” आभ्यां कार्त्तिकादिस्नाने सौरचान्द्रयोर्व्विकल्पे- नानुष्ठानम् । तत्र चान्द्रमपि द्बिविधम् । तथा च विष्णुः । “दर्शं वा पौर्णमासीं वा प्रारभ्य स्नानमाचरेत् । पुण्यान्यहानि त्रिंशत्तु मकरस्थे दिवाकरे ॥” दर्शं दर्शान्तयागसम्बन्धिनीं प्रतिपदमारभ्य त्रिंशत्तिथिम् । नारायणोपाध्यायस्तु दर्शपोर्ण- मासीति पूर्व्वदिनसङ्कल्पपरमिति । तत्र सौर- कृत्ये राश्युल्लेखः कार्य्यः । “संक्रान्तिविहिते कार्य्ये संक्रान्तिः परि- कीर्त्तिता । मासोल्लेखश्चेतरस्मिन् रविराशिस्थितिस्तथा ॥” इति गारुडात् ॥ * ॥
ततश्चारुणोदयकाले मज्जनं कृत्वाचम्य उदङ्- मुखः ॐ तत् सदित्युच्चार्य्य अद्य वैशाखे मासि अमुकपक्षे अमुकतिथावारभ्य मेषस्थरविं यावत् प्रत्यहं अमुकगोत्रः श्रीअमुकदेवशर्म्मा श्रीविष्णु- प्रीतिकामः प्रातःस्नानमहं करिष्ये । इति । गङ्गायान्तु अर्द्धप्रसूतगवीलक्षदानजन्यफलसम- फलप्राप्तिकामो विष्णुप्रीतिकामो वा इति सङ्कल्प्य यथोक्तविघिना स्नायात् । प्रतिदिन- सङ्कल्पे तु आरभ्य मेषस्थरविं यावत् प्रत्यह- मिति न वक्तव्यं किन्तु मासीत्यनन्तरं मेष- राशिस्थरवौ इत्यधिकं वक्तव्यम् । चान्द्रे तु मास्यनन्तरं शुक्लपक्षे प्रतिपदि तिथावारभ्य दर्शपर्य्यन्तमित्यूहनीयम् । प्रतिदिनसङ्कल्पे त्वारभ्य प्रत्यहमित्यन्तं न वक्तव्यम् । एवं कृष्ण- प्रतिपदारम्भे ऊहनीयम् । एवं मासान्तरे चोहनीयम् । सङ्कल्पाकरणे फलहानिमाह भविष्यपुराणम् । “सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः । फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत् ॥” * महार्णवे । “यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् । पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥ विप्रेभ्यः पादुकां छत्रं पितृभ्यो विषुवे शुभम् ।” पितृभ्यः पितॄनुद्दिश्य । अत्र विष्णुरहस्यम् । “अयने कोटिगुणितं लक्षं विष्णुपदीषु च । षढशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥ शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्रमा-का-मा-वैष्वनन्तकम् ॥” इति मत्स्यपुराणोक्तशतसहस्रगुणिततत्कर्म्मफल- जनकत्वेन विवक्षणीयत्वान्मेषादावित्यपि विषुव- संक्रान्तिपुण्यकालपरम् । अन्यथा कालद्बय- कल्पनापत्तेः । व्यवहारोऽपि तथा ॥ * ॥
संक्र- मणपुण्यकालस्तु दिनसंक्रमणे कृत्स्नं दिनम् । “षडशीतिमुखेऽतीते वृत्ते च विषुवद्वये । भविष्यत्ययने पुण्यमतीते चोत्तरायणे ॥” इति तु पुण्यतरकालपरं दिनवृत्तोत्तरायणादि- विहितविंशतिदण्डादीनां रात्रिप्रविष्टभाग- स्यापि पुण्यत्वम् । रात्रिसंक्रमे तु दण्डन्यून- प्रथमयामद्बयाभ्यन्तरे तद्दिवसीयशेषयामद्वयं पुण्यम् । दण्डद्वयात्मकमध्यरात्रे तद्दिवसीय- तिथेरभेदे तु तद्दिवसीयशेषयामद्वयं पुण्यम् । भेदे तु तद्दिवसीयशेषयामद्बयं पुण्यं परदिव- सीयाद्ययामद्बयञ्च । तिथ्यभेदभेदयोर्दक्षिणायने तद्दिवसीयशेषयामद्बयम् । उत्तरायणे पर- दिवसीयशेषयामद्बयम् । दण्डाधिकशेषार्द्ध- रात्रिसंक्रमणे परदिनाद्ययामद्बयम् । सन्ध्या- संक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रे- र्व्यवस्थेति ॥ * ॥
संक्रान्त्यां स्नानमावश्यकम् । अनिष्टसंक्रमणे तु तद्दोषशान्त्यर्थं धुस्तूरबीज- सलिलेन सर्व्वौषधिजलेन च स्नानं विष्णुपूजनं तन्मन्त्रजपः । संक्रान्तिकाल एव स्त्रीतैलमांस- वर्ज्यम् । इन्दुक्षयेऽमावास्यायाम् । दिनक्षये तिथि- क्षये । आ-का-मा-वैषु आषाढकार्त्तिकमाघ- वैशाखपौर्णमासीषु ॥ * ॥
ततः कृतस्नानादिः प्राङ्मुख उदङ्मुखं ब्राह्मणं गन्धपुष्पाभ्यां पूज- यित्वा जलघटान्वितशक्तूंश्च जलघटान्वित- शक्तुभ्यो नमः इति पूजयित्वा ब्राह्मणहस्ते जलं दत्त्वा घटं संप्रोक्ष्य वामहस्ते स्पृष्ट्वा कुशत्रय- तिलजलान्यादाय ॐ तत् सदित्युच्चार्य्य ओम् अद्यामुके मास्यमुकपक्षेऽमुकतिथौ महाविषुव- संक्रान्त्यां अमुकगोत्रस्य पितुरमुकदेवशर्म्मणः सर्व्वपापविमुक्तिकामः एतान् जलघटान्वित- शक्तून् विष्णुदेवताकान् अमुकगोत्राय अमुक- देवशर्म्मणे ब्राह्मणाय तुभ्यमहं संप्रददानीति ब्राह्मणहस्ते जलं दद्यात् ब्राह्मणस्तु दक्षिण- हस्ततलमध्यभागाग्नेयतीर्थेन ओमित्यनेन गृ- हीत्वा स्वस्तीत्युक्त्वा गायत्त्रीं कामस्तुतिञ्च पठेत् । जलघटान्विताः शक्तवो विष्णुदेवताकाः । इति वदेत् । ततो दक्षिणां दद्यात् । यथा ॐ अद्ये- त्यादि कृतैतत् जलघटान्वितशक्तुदानकर्म्मणः प्रतिष्ठार्थं दक्षिणां किञ्चित् काञ्चनमूल्यं ब्राह्म- णायाहं ददानीति । ततः अच्छिद्रावधारणम् । ब्राह्मणविशेषानुपदेशे यथासम्भवगोत्रनाम्ने ब्राह्मणायेति विशेषः । तत्र ब्राह्मणासन्निधाने तुभ्यमिति न देयम् । भूमौ त्यागजलप्रक्षेपः । एवमन्यत्रापि सम्प्रददे इति वाक्ये विशेषः । सत्पात्राभावे तत्सत्त्वेऽपि तत्तत्कामो विष्णुप्रीति- कामो वा विष्णवे दत्त्वा ब्राह्मणाय पश्चात् प्रतिपादयेत् । “देवे दत्त्वा तु दानानि देवे दत्त्वा तु दक्षिणाम् । तत् सर्व्वं ब्राह्मणे दद्यादन्यथा निष्फलं भवेत् ॥” इति मत्स्यसूक्तात् ॥ दत्त्वेत्यत्र देयानीति वाराहीये पाठः ॥ * ॥
“वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने । ददात्यभुक्त्वा राजेन्द्र स याति परमां गतिम् ॥” अत्रापि यथायोग्यं संपूज्य पूर्व्ववद्वाक्येन मनो- रथफलार्थिना सभोज्यघटो देयः ॥ * ॥
स्मृतिः । “मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥” तत्रापि यथायोग्यं संपूज्य पूर्ब्बवत् वाक्यं कृत्वा पठेत् “ॐ एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥” इति मन्त्रलिङ्गान्मनोरथफलत्वं ज्ञेयम् ॥ * ॥
कृत्यचिन्तामणौ । “मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ । अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥” उत्तरार्द्धे तु । “मेषस्थे च विधौ तत्र नास्त्यङ्गे विषजं भयम् ॥” इति संवत्सरप्रदीपे पाठः ॥ ततश्च मेषस्थरविस्थितिकाले मसूरं निम्बपत्र- द्वयञ्च भक्षयेत् ॥ * ॥
भविष्ये । “या शुक्ला नरशार्दूल वैशाखे मासि वै तिथिः तृतीया साक्षया ख्याता गीर्व्वाणैरपि वन्दिता ॥ योऽस्यां ददाति करकान् वारिवाजसमन्वितान् । स याति पुरुषो वीर लोकान् वै हेममालिनः ॥” वाजमन्नम् । हेममालिनः सूर्य्यस्य । ततो जलान्न- समन्वितकरकदाने सूर्य्यलोकगमनं फलम् । दानानुष्ठानं पूर्व्ववत् ॥ * ॥
ब्रह्मपुराणम् । “वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे च त्रेता च नवमेऽहनि ॥ अथ भाद्रपदे मासि त्रयोदश्यान्तु द्बापरम् । माघे तु पौर्णमास्यान्तु घोरं कलियुगं स्मृतम् ॥ युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ॥” तत्र वैशाखादयः पौर्णमास्यन्ता एव तथैव तिथिकृत्याभिधानात् । मुख्यवाचित्वे कार्त्तिके नवमेऽहनीति सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् ॥ * ॥
आसां प्रशंसामाह विष्णुपुराणम् । “एता युगाद्याः कथिताः पुराणै- रनन्तपुण्यास्तिथयश्चतस्रः । उपप्लवे चन्द्रमसो रवेस्त्रि- ष्वप्यष्टकास्वप्ययनद्बये च ॥ पानीयमप्यत्र तिलैश्च मिश्रं दद्यात् पितृभ्यः प्रणतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति ॥” उपप्लवे ग्रहणे ॥ * ॥
देवीपुराणम् । “युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥” * ॥
अक्षयतृतीयामधिकृत्य ब्रह्मपुराणम् । “तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्च्चयेत् । यवान् दद्यात् द्बिजातिभ्यः प्रयतः प्राशयेद्- यवान् ॥ पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम् । भगीरथञ्च नृपतिं सागराणां सुखावहम् ॥” * ॥
स्कान्दे । “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता । तत्र मां लेपयेद्गन्धैर्लेपनैरतिशोभनैः ॥” मां जगन्नाथम् ॥ * ॥
अन्यत्रापि । तथा च जगन्नाथस्नानमधिकृत्य भविष्ये । “संवत्सरफलं राजन् नवम्यां कार्त्तिके तथा । मन्वादौ च युगादौ च मासत्रयफलं भवेत् ॥” * मन्वादयस्तु भविष्यमात्स्ययोः । “अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा । तृतीया चैत्रमासस्य यथा भाद्रपदस्य च ॥ फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥ श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिताः ॥ मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः ॥” अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः उपक्रमोप- संहारयोः शुक्लात्वकीर्त्तनात् ॥ * ॥
नारदीये । “वैशाखे शुक्लपक्षे तु द्वादशी वैष्णवी तिथिः । तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः ॥” इयं पिपीतकद्वादशी । नात्र युग्मादरापेक्षा । तत्र विष्णुपूजने उपवासोत्तरविधानात् ॥ * ॥
अथ यवान्नश्राद्धम् । तत्र वैशाखशुक्लपक्षे कुज- शनिशुक्रेतरवारे नन्दारिक्तात्रयोदशीतरतिथौ जन्मचन्द्राष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रयपञ्च- मतारात्रयेतरेषु पूर्ब्बफल्गुनीपूर्ब्बभाद्रपदपूर्ब्बा- षाढामघाभरण्यश्लेषार्द्रेतरनक्षत्रेषु यवश्राद्धं कर्त्तव्यम् । तच्छेषभोजनन्तु एतादृग्निषिद्धायां विषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतः कर्त्तव्यम् । वैशाखाकरणे ज्यैष्ठशुक्लपक्षे आषाढशुक्लपक्षे च हरिशयनेतरत्र कर्त्तव्यम् । इति कृत्यतत्त्वम् ॥ * ॥
* ॥
अथ वैशाख- माहात्म्यम् । “ये कार्त्तिकव्रतपरा ये माघपरिनिष्ठिताः । ये वैशाखव्रतासक्तास्तेषां तुष्टः सदा हरिः ॥ सर्व्वेषामेव मासानां वैशाखः प्रवरः स्मृतः । पुरा हरिमुखे राजन् श्रुतमेतन्न संशयः ॥ तत्र स्नानं जपो होमः श्राद्धं दानादि यत् कृतम् । तत् सर्व्वं भूपतिश्रेष्ठ सत्यमक्षयमुच्यते ॥ एकतः सर्व्वतीर्थानि सर्व्वे यज्ञाः सदक्षिणाः । भूप वैशाखमासाद्य कोट्यंशेनापि नो समाः ॥ मेरुतुल्यानि हेमानि सर्व्वदानानि चैकतः । एकतः सर्व्वदा भूप माधवो माधवप्रियः ॥ असंख्यानि च पापानि वहुजन्मार्ज्जितानि च । निमेषार्द्धेन राजेन्द्र विलयं यान्ति माधवे ॥ वैशाखमागतं दृष्ट्वा पितॄणामुत्सवो भवेत् । पुत्त्रो नियममाचर्य्य अस्मभ्यमुद्धरिष्यति ॥ आगतं माधवं दृष्ट्वा कम्पन्ते पापसञ्चयाः । अस्माकं नाशकालोऽयं भूपते ध्रुवमागतः ॥ वैशाखं परमं मासं माधवस्येति ह प्रियम् । नियमेन समाचर्य्य न भूयो जायते नरः ॥ मनसा संस्मरेद्यस्तु नियमं माधवोद्भवम् । पूयते पातकैः सर्व्वैः शक्रेण सह मोदते ॥ वचसा यो वदेद्भूप वैशाखं माधवप्रियम् । अहं समाचरिष्यामि स गच्छेद्ब्रह्मणः पुरम् ॥ यः समाचरते भूप नियमेन तु माधवम् । स विष्णो रूपमासाद्य विष्णुना सह मोदते ॥ नियनेन समाचर्य्य एकाहमपि भूपते । पितरस्तारितास्तेन यास्यन्ति परमां गतिम् ॥ तस्मिन् स्नात्वा विशुद्धात्मा दम्भमात्सर्य्यवर्ज्जितः । ईप्सितान् लभते कामान् श्रीविष्णोर्दयितो भवेत् ॥ ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नस्त्रीविघातकः । नियमेन नयेन्मासं स मुक्तः सर्व्वपातकात् ॥ पातकानामेकमेव प्रायश्चित्तं विदुर्ब्बुधाः । सर्व्वपापसमुद्भूतौ नात्र कार्य्या विचारणा ॥ वैशाखस्नायिनो लोकाः श्रीविष्णुसेवनोत्सुकाः । पापं न तेषां मतिमन्निह लोके परत्र च ॥ सर्व्वस्वदानं विधिवत् सर्व्वदा परिशोधनम् । चान्द्रायणञ्च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ पुण्यक्षेत्राभिगमनं सर्व्वपापप्रणाशनम् । देवताभ्यर्च्चनं चैव तथैवातिथिसेवनम् ॥ कदापि यैर्नाचरितं वाङ्मनःकायकर्म्मभिः । संप्राप्य ते तु कुर्व्वन्तु माधवे नियमं नराः ॥ समाचरन्ति ये मासं माधवं कृतबुद्धयः । सदा प्रीतिमनास्तेषां श्रीकृष्णो देवकीसुतः ॥ या नारी विधावा भूत्वा माधवे नियमं चरेत् । कुलायुतसहस्रन्तु नयते परमं पदम् ॥ पुत्त्रेणापीह किं कार्य्यं येन नाचरितं नृप । वैशाखं पुत्त्रशतकात् नारी घन्या हरिप्रिया ॥ यो माधवेऽर्च्चयेद्राजन् गोविन्दं गोपवल्लभम् । न तस्य विद्यते संख्या पूजनस्य फलस्य च ॥ वैष्णवस्य तु धर्म्मस्य पारं गन्तुं यदीच्छसि । नरेन्द्र माधवं मासं नियमेन समाचर ॥ किं करिष्यति सांख्येन योगेन नरनायक । मुक्तिमिच्छसि चेद्राजन् माधवं माधवेऽर्च्चय ॥ अभक्षसम्भवं राजन् कुप्रतिग्रहसम्भवम् । तत्पापं संक्षयं याति माधवे नियमे कृते ॥ रणे यदि रिपुं जेतुं त्वमिच्छसि नराधिप । नियमेन तदा विष्णोः प्रियं माधवमाचर् ॥ यदि सांसारिकं दुःखं हन्तुमिच्छसि भूमिप । तदा नियममास्थाय माधवे माधवं भज ॥ राज्यभोगांश्च विपुलान् पुत्त्रमित्रादिसम्पदम् । यदिच्छसि तदा विष्णोः प्रियं माधवमाचर ॥ त्यक्तुमिच्छसि राजेन्द्र जन्ममृत्युजरादिकम् । भयं यदि तदा विष्णोः प्रियं माधवमाचर ॥ यैर्नाचरितो मासो माधवः पापबुद्धिभिः । नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः ॥ न वैशाखसमो मासो विशेषः केशवप्रियः । अव्रतेन क्षिपेद्यस्तु तं विद्यान्निकषात्मज ॥ यतिश्च विधवा चैव विशेषेण वनाश्रमी । वैशाखे नरकं याति ह्यकृत्वा नियमं नरः ॥ तस्माद्राजन् प्रयत्नेन कुरु त्वं माधवव्रतम् । यस्याचरणमात्रेण हरिस्तुष्टो भविष्यति ॥ तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले । यावन्नायाति राजेन्द्र माधवो माधवप्रियः ॥ अणुमात्रन्तु यत्किञ्चिद्यो ददाति च माधवे । काले वा यदि वाकाले कोटिकोटिगुणं भवेत् ॥ ययोदधीनां राजर्षे ! क्षयो नैवोपपद्यते । तथैव माधवे मासि न क्षयं प्रापपुण्ययोः ॥ नाचारि धर्म्माचरणेन माधवं नाराधितो यैः पुरुषप्रधानः । यैर्न श्रुता भूप कथा मुरारे- स्तेषां वृथा जन्म नराधमानाम् ॥ न पीडयन्ति ग्रहराक्षसा गणा यक्षाः पिशाचोरगभूतदानवाः । यो माधवे मासि नरेन्द्रवर्य्य ध्रुवं मुरारेर्व्रतमाचरन्ति ह ॥” इति पाद्मोत्तरखण्डे वैशाखमाहात्म्यकथने १६८ अध्यायः ॥



Correction: