शब्दकल्पद्रुमः
वैशाखी || स्त्री (विशाखया युक्ता पौर्णमासी । “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् । ततो ङीप् ।)
वैशाखमासस्य पूर्णिमा । यथा, “विशाखातारकायुक्ता वैशाखी पूर्णिमा भवेत् ।” इति शब्दरत्नावली ॥ तत्र तर्पणफलम् । वैशाखीमुपक्रम्य यमः । “गौरान् वा यदि वा कृष्णान् तिलान् क्षौद्रेण संयुतान् । प्रीयतां धर्म्मराजेति पितॄन् देवांश्च तर्पयेत् ॥ यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । अब्दायुतञ्च तिष्ठेत्तु स्वर्गलोके न संशयः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
रक्तपुनर्नवा । इति राजनिर्घण्टः ॥ (वसुदेवस्य स्त्रीणामन्यतमा । यथा, हरिवंशे । ३५ । २ । “वैशाखी च तथा भद्रा सुनामा चैव पञ्चमा ॥”)