शब्दकल्पद्रुमः
वैशिष्टं || क्ली (विशिष्टस्य भावः ।)
विशिष्टत्वम् । तत्तु सम्बन्धपदार्थः । विशिष्टधीनियामक इति यावत् । यथा । “विशिष्टवैशिष्टेत्याद्यभ्युपगम- वादः ।” इति शिरोमणिः ॥ दण्डसंयोगवान् इति शाब्दबोधो न विशिष्टवैशिष्टावगाही । खले कपोतन्यायेनैव तत्स्वीकारात् । इति भावः । इति जागदीशी सामान्यलक्षणा ॥ * ॥
(असाधारणत्वम् । यथा, महाभारते । १३ । १५९ । ४१ । “त्रिषु लोकेषु तावच्च वैशिष्टं प्रतिपत्स्यसे । सुप्रियः सर्व्वलोकस्य भविष्यसि जनार्द्दन ॥”)