वाचस्पत्यम्
वैशिक || पु० वेशे वेश्यालये उपचारात् वेश्यायां प्रसृतः ठक् । वश्याभिषक्ते नायकभेदे रसम० ।
शब्दकल्पद्रुमः
वैशिकः || पुं, (वेशेन जीवतीति । वेश + “वेतना- दिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।)
त्रिविधनायकान्तर्गतनायकविशेषः । यथा, — शृङ्गारस्य उभयसाध्यत्वान्नायकोऽपि निरूप्यते । स च त्रिविधः । पतिरुपपतिर्व्वैशिकश्च । बहु- वेश्याभोगोपरसिको वैशिकः । यथा, —
“काञ्चीकलक्वणितकोमलनाभिकान्तिं पारावतध्वनिविचित्रितकण्ठपालिम् । उद्भ्रान्तलोचनचकोरमनङ्गरङ्ग- माशास्महे कमपि वारविलासवत्याः ॥” * ॥
वैशिकस्तूत्तममध्यमाधमभेदात् त्रिविधः । दयिता- श्रमप्रकोपे अपि उपचारपरायणः उत्तमः । यथा, —
“चक्षुःप्रान्तमुदीक्ष्य पक्ष्मलदृशः शोणारविन्द- श्रियं नोच्चैर्जल्पति न स्मितं वितनुते गृह्णाति वीढीं न वा । तल्पोपान्तमुपेत्य किन्तु पुलकभ्राजत्कपोलद्युतिः कान्तः केवलमानतेन शिरसा मुक्तास्रजं गुम्फति ॥” * ॥
प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनोभावं गृह्णाति स मध्यमः । यथा, —
“आस्यं यद्यपि हास्यवर्ज्जितमिदं लास्येन हीनं वचो नेत्रं शोणसरोषकान्तिरुचिरे क्वापि क्षणं स्थीयते । मालायाः करणोद्यमो न कविकारम्भः कुचा- म्भोजयो- र्घूपः कुन्तलधोरणीषु सुतनोः सायन्तनो दृश्यते ॥” * ॥
भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्या- कृत्यविचारोऽधमः । यथा, —
“उदयति हृदि नैव यस्य लज्जा न च करुणा न च कोऽपि भीतिलेशः । वकुलमुकुलकोषकोमलां मां पुनरपि तस्य करेण सातयेथाः ॥” * ॥
मानी चतुरः शठ एवान्तर्भवति । मानी यथा, “बाह्याकूतपरायणं तव वचो वज्रोपमेयं मनः श्रुत्वा वाचमिमामपास्य विनयं व्याजाद्बहिः प्रस्थिते । प्रातर्व्वक्रविलोकने परिहृतालापे विवृत्तानने प्राणेशे नियतं पतन्ति कृपणा वामभ्रुवो दृष्टयः ॥” वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः । वचनव्यङ्ग्य- समागमो यथा, —
“तमोजटाले हरिदन्तराले काले निशायास्तव निर्गतायाः । तटे नदीनां निकटे वनानां घटेत शातोदरि ! कः सहायः ॥” चेष्टाव्यङ्गसमागमो यथा, —
“कान्ते कनकजम्बीरं करे कमपि कुर्व्वति । अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥” इति रसमञ्जरी ॥ (वेशसम्बन्धिनि, त्रि । यथा, मृच्छकटिके । १ अङ्के । “ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्व्वप्रासादात् व्यपगततिमिरे चक्षुषी चोपलभ्य ॥”)