संस्कृत-शब्दकोशः

वैश्य वैश्या

वैश्यवृत्ति

वाचस्पत्यम्

वैश्यवृत्ति ||‍ स्त्री ६ त० । कृषिवाणिज्यादौ “वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्त्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे । प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः । न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथ- ञ्चन । मणिमुक्तप्रवालानां लोहानां तान्तवस्य च । ग- न्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम् । वीजाना- मुप्तिविच्च स्यात् क्षेत्रदोषगुणस्य च । मानयोगञ्च जा- नीयात् तुलायोगांश्च सर्वशः । सारासारञ्च भाण्डानां देशानाञ्च गुणागुणान् । लाभालाभञ्च पण्यानां पशूनां परिवर्द्धनम् । भृत्यानाञ्च भृतिं विद्याद् भाषाश्च विवि- धानृणाम् । दूव्याणां स्थानयोगांश्च क्रयविक्रयमेव च । धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् । दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः” मनुः । “वैश्यस्य च प्रव क्ष्यामि यो धर्मो वेदसम्मतः । दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः । पालयेच्च पशून् वैश्यः पितृवद्धर्म- मर्जयन् । विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत् । रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजा- पतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः । ब्राह्मणेभ्यश्च राज्ञे च सर्वाः परिददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । षण्णामेका पिबेद्धेनुं शताच्च मिथुनं भवेत् । लब्धाच्च सप्तमं भागं तथा शृङ्गैकल- क्षुरे । शस्यानां सर्ववीजानि एषा सांवत्सरी भृतिः” पाद्मस्व० २६ अ० ।



Correction: