शब्दकल्पद्रुमः
वैष्णवाचारः || पुं, (वैष्णवानामाचारः ।)
विष्णु- भक्तानामाचरणम् । यथा, —
“अथाचारा बहुविधाः शिष्टाचारानुसारतः । श्रीवैष्णवानां कर्त्तव्या लिख्यन्तेऽत्र समासतः ॥” अथाचाराः श्रीविष्णुपुराणे और्व्वसगरसंवादे गृहस्थाचारकथनारम्भे । “देवगोब्राह्मणान् सिद्धान् वृद्धाचार्य्यांस्तथा- र्च्चयेत् । द्विकलञ्च नमेत् सन्ध्यामग्नीनुपचरेत्तथा ॥ सदानुपहते वस्त्रे प्रशस्ताश्च तथौषधीः । गारुडानि च रत्नानि विभृयात् प्रयतो नरः ॥ प्रसिद्धामलकेशश्च सुगन्धिश्चारुवेशधृक् । किञ्चित् परस्वं न हरेत् नाल्पमप्यप्रियं वदेत् । प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् । नान्याश्रयं तथा वैरं रोचयेत् पुरुषेश्वरः ॥ न दुष्टयानमारोहेत् कुलच्छायां न संश्रयेत् । विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः ॥ बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह । तथातिव्ययशीलैश्च परिवादरतैः शठैः ॥ बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् । नावगाहेज्जलौघस्य वेगमग्रे जनेश्वर ॥ प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः । न कुर्य्याद्दन्तसङ्घर्षं न कृष्णीयाच्च नासिकाम् । नासंवृतमुखो जृम्भेत् श्वासकासौ विवर्ज्जयेत् । नोच्चैर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं त्वधः ॥ नखान्न वादयेच्छिन्द्यान्न तृणं न महीं लिखेत् । न श्मश्रु भक्षयेल्लोष्ट्रान्न गृह्णीयाद्विचक्षणः ॥ ज्योतींष्यमेध्याशस्तानि नाभिवीक्षेत च प्रभो । न हुङ्कुर्य्याच्छवं चैव शवगन्धो हि सोमजः ॥ चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसन्निकर्षञ्च वर्ज्जयेन्निशि सर्व्वदा ॥ पूज्यदेवद्बिजज्योतिश्छायां नातिक्रमेद्बुधः । नैकः शून्याटवीं गच्छेन्न च शून्यं गृहं व्रजेत् ॥ केशास्थिकण्ठकामेध्यबलिभस्मतुषांस्तथा । स्नानार्द्रां धरणीं चैव दूरतः परिवर्ज्जयेत् ॥ नानार्य्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः । उपसर्पेन्न च व्यालांश्चिरं तिष्ठेन्न चोत्थितः ॥ यथेष्टभोजकांश्चैव तथा देवपराङ्मुखान् । वर्णाश्रमक्रियातीतान् दूरतः परिवर्ज्जयेत् ॥ अतीवजागरस्वप्नौ तद्बत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामञ्च नरेश्वर ॥ दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्ज्जयेत् । अवश्यायञ्च राजेन्द्र पुरोवातातपौ तथा ॥ न स्नायान्न स्वपेन्नग्नो न चेवोपस्पृशेद्बुधः । मुक्तकच्छश्च नाचामेद्देवाद्यर्च्चाञ्च वर्ज्जयेत् ॥ नैकवस्त्रः प्रवर्त्तेत द्विजवाचनके जपे ॥” * ॥
किञ्च । “न च निर्धूनयेत् केशान्नाचामेन्नैव चोत्थितः । पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥ अपसव्यं नैव गच्छेद्देवागारचतुष्पथान् । मङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणाम् ॥ सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न संमुखम् । कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥ तिष्ठन्न मूत्रयेत्तद्वत् पन्थानं नावमूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्व्वदैव न लङ्घयेत् ॥ श्लेष्मष्ठीवनकोत्सर्गो नान्नकाले प्रशस्यते । वलिमङ्गलजप्यादौ न होमे न महाजने ॥ योषितो नावमन्येत न चासां विश्वसेद्बुधः । न चैवेर्षी भवेत्तासु नाधिकुर्य्यात् कदाचन ॥ मङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च । न निष्क्रामेत् गृहात् प्राज्ञः सदाचारपरो नरः ॥ आकालगर्ज्जितादौ तु पर्व्वस्वशौचकादिषु । अनध्यायं बुधः कुर्य्यादुपरागादिके तथा ॥ वर्षातपादिके च्छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥ नोर्द्धं न तिर्य्यक् दूरं वा निरीक्षन् पर्य्यटेद्बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद्बिलोकयन् ॥” * ॥
किञ्च । “प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तद्रहितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥ प्राणिनामुपकाराय यदेवेह परत्र च । कर्म्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥” * ॥
बृहन्नारदीये सदाचारप्रसङ्गे । “असावहमिति ब्रूयाद्द्विजो वै ह्यभिवादने । श्राद्धं व्रतं जपं दानं देवताभ्यर्च्चनं तथा ॥ यज्ञञ्च तर्पणञ्चैव कुर्व्वन्तं नाभिवादयेत् । तथा स्नानं प्रकुर्व्वन्तं धावन्तमशुचिन्तथा ॥ भुञ्जानञ्च शयानञ्च अभ्यक्तशिरसन्तथा । भिक्षान्नधारिणं चैव रमन्तं जलमध्यगम् ॥ कृताभिवादनो यो न कुर्य्यात् प्रत्यभिवादनम् । नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव सः ॥” * मार्कण्डेयपुराणे मदालसालर्कसंवादे । “असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्ज्जयेत् । असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्त्रक ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्च्चाह्ण एव कार्य्याणि देवतानाञ्च तर्पणम् ॥ उदक्यादर्शनं स्पर्शं वर्जेत् सभाषणं तथा । न चाभीक्ष्णं शिरःस्नानं कुर्य्यान्निष्कारणं नरः ॥ शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् । पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ॥ विद्याधिकस्य गुर्व्विण्या भारार्त्तस्य महीयसः । मूकान्पवधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥ पुश्चल्याः कृतवैरस्य बालस्य पतितस्य च । उपानद्बस्त्रमाल्यानि धृतान्यन्यैर्न धारयेत् ॥ उपवीतमलङ्कारं करकञ्चैव वर्जयेत् । न क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ॥ न चापि विक्षिपेत् पादौ वाससी न च धूनयेत् । मूर्खोन्मत्तव्यसनिनो विरूपान् मायिनस्तथा ॥ न्यूनाङ्गानधमांश्चैव नोपहासेन्न दूषयेत् । परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्त्रशिष्ययोः ॥ नानुलेपनमादद्यादस्नातः स्नातकी क्वचित् । न चापि रक्तवासाः स्याच्चित्रवासधरोऽपि वा ॥ क्षुरकर्म्माणि चान्ते च स्त्रीसम्भोगे च पुत्त्रक । स्नायीत तैलवान् प्राज्ञः कटभूमिमुपेत्य च । युगपज्जलमग्निञ्च विभृयान्न विचक्षणः ॥” कटमूमिं श्मशानम् । “नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ॥” धयन्तीं पिबन्तीम् । “शौचकालेषु सर्व्वेषु गुरुष्वल्पेषु वा पुनः । न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥ विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः । अजाश्वौ मुखतो मेध्यौ न गोर्व्वत्सस्य चाननम् ॥ मातुः प्रस्नवने मेध्यं शकुनिः फलपातने । उदक्याशौचिलग्नांश्च सूतिकान्त्यावसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ नारं स्पृष्ट्वास्थि सस्नेहं स्नातः शुध्यति मानवः । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ न चालपेत् जनं द्बिष्टं वीरहीनां तथा स्त्रियम् ॥ देवतातिथिसच्छास्त्रयज्ञसिद्धादिनिन्दकैः । कृत्वा तु स्पर्शनालापं शुद्ध्येदर्कावलोकनात् ॥ अवलोक्य तथोदक्यामन्त्यजान् पतितं शठम् । विधर्म्मिसूतिकाषण्डविवस्त्रान्त्यावसायिनः ॥ मृतनिर्यातकाश्चैव परदाररताश्च ये । एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥” * ॥
किञ्च । “यच्चापि कुर्व्वतो नात्मा जुगुप्सामेति पुत्त्रक । तत् कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥” * ॥
भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे । “उपासते न ये पूर्ब्बां द्विजाः सन्ध्यां न पश्चि- माम् । सर्व्वांस्तान् धार्म्मिको राजा शूद्रकर्म्मणि योज- येत् ॥ दूरादावसथान्मूत्रं दूरात् पादावसेचनम् । उच्छिष्टोत्सर्ज्जनं भूप सदा कार्य्यं हितैषिणा ॥ उच्छिष्टो न स्पृशेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः । केशग्रहान् प्रहारांश्च शिरस्येतानि वर्ज्जयेत् ॥ न पाणिभ्यामुभाभ्यान्तु कण्डूयाज्जातु वै शिरः ॥” किञ्च । “सुवासिनीं गुर्व्विणीञ्च वृद्धं बालातुरौ तथा । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥ अघं स केवलं भुङ्क्ते बद्धे गोवाहनादिके । यो भुङ्क्ते पाण्डवश्रेष्ठ प्रेक्षतामप्रदाय च ॥ वर्ज्जयेद्दधि शक्तुञ्च रात्रौ धानाश्च वासरे ॥” किञ्च । “स्रजश्च नावकर्षेत न वहिर्घारयीत च । गृहे पारावता धन्याः शुकाश्च सहकारिकाः ॥” कौर्म्मे व्यासगीतायाम् । “तृणं वा यदि वा शाकं मूलं वा जलमेव वा । परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥ न राज्ञः प्रतिगृह्णीयान्न शूद्रात् पतितादपि । नान्यस्माद्याचकत्वञ्च निन्दिताद्बर्ज्जयेद्बुधः ॥ नित्यं याचनको न स्यात् पुनस्तत्रैव याचयेत् । प्राणानपहरत्येष याचकस्तस्य दुर्म्मतिः ॥ न देवद्रव्यहारी स्याद्बिशेषेण द्विजोत्तमाः । ब्रह्मस्वञ्च नापहरेदापद्यपि कदाचन ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । देवस्वं वापि यत्नेन सदा परिहरेत्ततः ॥ न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्व्वन् स्त्रीशूद्रदम्भनम् ॥ प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्मवादिभिः । देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ॥ ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणा- धिकम् ॥” * ॥
किञ्च । “हिमवद्बिन्ध्ययोर्मध्ये पूर्व्वपश्चिमयोः शुभम् । मुक्त्रा समुद्रयोर्द्देशं नान्यत्र निवसेद्द्विजः ॥ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ॥ अर्द्धक्रोशान्नदीकूलं वर्ज्जयित्वा द्विजोत्तमाः ॥” किञ्च । “अग्निना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्व्विभिद्यते ॥ परक्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् । न सूर्य्यपरिवेशं वा नेन्द्रचापं न चाग्निकम् ॥ परस्मै कथयेद्बिद्वान् शशिनं वा कथञ्चन । तिथिं पक्षस्य न ब्रू यान्नक्षत्राणि विनिर्द्दिशेत् ॥ न देवगुरुविप्राणां दीयमानन्तु वारयेत् । निन्दयेद्यो गुरून् देवान् वेदं वा सोपबृंहणम् ॥ कल्पकोटिशतं साग्रं रौरवे पच्यते नरः । तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ॥ कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेत् । वर्ज्जयेद् वै रहस्यञ्च परेषां गूहयेद्बुधः ॥ विवादं स्वजनैः सार्द्धं न कुर्य्याद्वै कदाचन । न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ॥ नेक्षेतोद्यन्तमादित्यं शशिनं वानिमित्ततः । नास्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् ॥ तिरोहितं वाससा वा न दशान्तरगामिनम् । नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रमेव वा ॥ पतितव्यङ्गचाण्डालानुच्छिष्टान्नावलोकयेत् । न युक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ स्पृशेन्न भोजने पत्नीं नैनामीक्षेत मेहतीम् । क्षुवन्तीं जम्भमाणां वा नासनस्थां यथासुखम् ॥ नोदके चात्मनो रूपं न कुलं श्वभ्रमेव वा । न शूद्राय मतिं दद्यात् कृषरं पायसं दधि ॥ नोच्छिष्टं वा घृतमधु न च कृष्णाजिनं हविः । न कुर्य्यात् कस्यचित् पीडां मुतं शिष्यञ्च ताड- येत् ॥ नात्मानमवमन्येत दैन्यं यत्नेन वर्ज्जयेत् । न च शिष्यान्न सत् कुर्य्यान्नात्मानं शंसयेद्बुधः ॥ न नद्याञ्च नदीं ब्रूयात् पर्व्वतेषु न पर्व्वतम् । आवसेत्तेन नैवापि यस्त्यजेत् सहवासिनम् ॥ शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । रोमाणि च रहस्यानि स्वानि खानि च न स्पृशेत् ॥ न पानिपादवाङ्नेत्रचापलानि समाश्रयेत् । नाभिहन्याज्जलं पद्भ्यां पाणिना न कदाचन ॥ न घातयेदिष्टिकाभिः फलानि न फलेन च । न म्लेच्छभाषणं शिक्षेन्न कर्षेश्च पदासनम् ॥ नोत्सङ्गे भक्षयेद्भक्ष्यान् गाञ्च संवेशयेन्न हि । नाक्षैः क्रीडेन्न धावेत स्त्रीभिर्व्वादं न चाचरेत् ॥ न दन्तैर्नखलोमानि छिन्द्यात् सुप्तं न वोधयेत् । न वालातपमासेवेत् प्रेतधूमं विवर्ज्जयेत् ॥ नैकः सुप्यात् शून्यगृहे स्वयं नोपानहौ वहेत् । नाकारणाद्बा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥ न पादक्षालनं कुर्य्यात् पादेनैव कदाचन । नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद्बुधः ॥ नाभिप्रतारयेद्देवान् ब्राह्मणान् गामथापि वा । न स्पृशेत् पाणिनोच्छिष्टो विप्रगोब्राह्मणा- नलान् ॥ न चैवान्नं पदा वापि न देवप्रतिमां स्पृशेत् । नोत्तरेदनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् ॥ चैत्यं वृक्षं नैव छिन्द्यान्नाप्सु ष्ठीवनमुत्सृजेत् । न चाग्निं लङ्गयेद्धीमान् नोपदध्यादधः क्वचित् ॥ न चैवं पादतः कुर्य्यात् तिलबद्धं निशि त्यजेत् । न कूपमवरोहेत नाचक्षीताशुचिः क्वचित् ॥ अग्नो न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा । सुहृन्मरणमार्त्तिं वा न स्वयं श्रावयेत् परान् ॥ अपण्यमथ पण्यं वा विक्रयं न प्रयोजयेत् । पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ न भिन्द्यात् पूर्ब्बसमयं सत्योपेतं कदाचन । परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् ॥ कारयित्वा स्वकर्म्माणि कारून् विद्वान् न वञ्चयेत् । वहिर्गन्धञ्च कुद्वारप्रवेशञ्च विवर्ज्जयेत् ॥ नैकश्चरेत् सभां विप्रः समवायञ्च वर्ज्जयेत् । न बीजयेद्वा वस्त्रेण न देवायतने स्वपेत् । नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् । नाक्रामेत् कामतश्छायां ब्राह्मणानां गवामपि ॥ स्वान्तु नाक्रामयेच्छायां पतिताद्यैर्नरोगिभिः । वर्जयेन्मार्जनीरेणुं वस्त्रस्नानघटोदकम् ॥ नाश्नीयात् पयसा तक्रं न बीजान्युपवीजयेत् ॥ विवत्सायाश्च गोक्षीरमौष्ट्रं वा निर्द्दशस्य च । आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥ हन्तकारमथाग्र्यं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्र्यं तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारन्तु तच्चतुर्गुणमिष्यते ॥” मार्कण्डेये । “भोजनं हन्तकारं वा अग्र्यं भिक्षामथापि वा । अदत्त्वा तु न भोक्तव्यं यथा विभवमात्मनः ॥” * काशीखण्डे । “नैवोत्कटासनेऽश्नीयान्नाग्नौ वस्त्वशुचि क्षिपेत् ॥ श्राद्धं कृत्वा परश्राद्धे योऽश्रीयात् ज्ञानवर्जितः । दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग्- भवेत् ॥ नोत्पाटयेल्लोमनखं दशनेन कदाचन । करजैः करजच्छेदं करेणैव विवर्ज्जयेत् ॥ अपद्वारे न गन्तव्यं स्ववेश्मपरवेश्मनोः । उत्कोचद्यूतदेवार्थद्रव्यं दूरात् परित्यजेत् ॥ निष्ठीवनञ्च श्लेष्माणं गृहात् दूरे विनिःक्षिपेत् ॥ उद्धृत्य पञ्चमृत्पिण्डान् स्नायात् परजलाशये । अनुद्धृत्य च तत्कर्त्तुरेनसः स्यात्तुरीयभाक् ॥” ब्राह्मे । “यस्तु पाणितले भुङ्क्ते यस्तु फत्कारसंयुतम् । प्रसृताङ्गुलिभिर्यस्तु तस्य गोमांसवच्च तत् ॥” अत्रिस्मृतौ । “न्यूनाधिकस्तनी या गौर्याथवाभक्षचारिणी । तयोर्दुग्धं न होतव्यं न पातव्यं कदाचन ॥ अजा गावो महिष्यश्च यामेध्यमपि भक्षयेत् । हव्ये कव्ये च तद्दुग्धं गोमयञ्च विवर्ज्जयेत् ॥ अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणन्तथा । मृत्तिकाप्राशनञ्चैव तुल्यं गोमांसभक्षणैः ॥” अत्रापवादो मनुस्मृतौ । “सामुद्रं सैन्धवञ्चैव लवणे परमाद्भुते । प्रत्यक्षे अपि ते ग्राह्ये निषेधस्त्वन्यगोचरः ॥” अत्रिस्मृतौ । “दिवा कपित्थच्छाया च निशायां दधिभो- जनम् । कार्पासं दन्तकाष्ठञ्च शक्रादपि हरेत् श्रियम् ॥” विष्णुस्मृतौ च । “कपिलायाः पयः पीत्वा शूद्रस्तु नरकं व्रजेत् । होमशेषं पिबेद्बिप्रो विप्रः स्यादन्यथा पशुः ॥ परिहर्त्तुं पुनर्लेखं तत्तच्छास्त्रोक्तमन्यथा । यदत्र लिखितं किञ्चित्तत् क्षन्तव्यं महात्मभिः ॥ आचाराश्चेदृशाः सन्ति परेऽपि बहुलाः सताम् । ते लोकशास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥ नित्यत्वमेषां माहात्म्यमप्यत्र लिखितात् पुरा । सदाचारस्यनित्यत्वान्माहात्म्याच्च सुसिद्ध्यति ॥” इति श्रीहरिभक्तिविलासे तित्यकृत्यसमापनो नाम ११ विलासः ॥