शब्दकल्पद्रुमः
वैष्णवी || स्त्री (विष्णोरियम् । विष्णु + अण् । स्त्रियां ङीप् ।)
विष्णुशक्तिः । यथा, —
“एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंहिता ॥ एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ॥ अष्टादश यथा कोट्यो वैष्णव्या भेद उच्यते । या विष्णो राजसी शक्तिः पालिनी चैव वैष्णवी ॥” इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥ अपि च । “शङ्खचक्रगदाधारी विष्णुमाता तथारिहा । विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥” इति देवीपुराणे ४५ अध्यायः ॥ अपरञ्च । “विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी । सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ दुर्गा । इति शब्दरत्नावली ॥ गङ्गा । यथा, पद्मपुराणम् । “विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥” इत्यादि आह्रिकाचारतत्त्वे स्नानार्थगङ्गावाहन- मन्त्रः ॥ अन्यच्च । “विष्णुपादप्रसूतासि वैष्णवीनामधारिणी । सर्व्वत्र रक्ष मां नित्यं गङ्गा त्रिपथगामिनी ॥” इति गङ्गाकवचम् ॥ अपराजिता । इति शब्दचन्द्रिका ॥ शतावरी । इति राजनिर्घण्टः ॥ तुलसी । इति शब्द- माला ॥