संस्कृत-शब्दकोशः

वैसूचन वैहासिक

वैहार्य

वाचस्पत्यम्

वैहार्य्य ||‍ त्रि० विहारं परिहासमर्हति ष्यञ् । परिहासार्हे श्यालकादौ “यथा बालेषु नारीषु वैहार्य्येषु तक्षैव च । सङ्करेषु निपातेषु तथापद्व्यसनेषु च । अनृतं नोक्तपूर्वं मे” भा० उ० १२१ अ० ।


शब्दकल्पद्रुमः

वैहार्य्यः || त्रि (विशेषेण ह्रीयते इति । वि + हृ + ण्यत् । विहार्य्य एव । स्वार्थे अण् ।)
परि- हासेन लालनीयः । श्यालसम्बन्ध्यादि । इत्य- र्ज्जुनमिश्रः ॥ यथा, —
“यथा बालेषु नारीषु वैहार्य्येषु तथैव च । सङ्गरेषु निपातेषु तथापद्व्यसनेषु च । अनृतं नोक्तपूर्व्वं मे तेन सत्येन खं व्रज ॥” इति महाभारते उद्योगपर्व्व ॥



Correction: