वाचस्पत्यम्
वोदाल || पुंस्त्री० वोद आर्द्रः सन्नलति अल—अच् । मत्स्यभेदे (वोओयाल) शब्दर० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वोदालः || पुं, (वोदः आर्द्रः सन् अलतीति । अल + अच् ।)
मत्स्यविशेषः । वोयालि इति भाषा ॥ तत्पर्य्यायः । सहस्रदंष्ट्री २ पाठीनः ३ वदा- लकः ४ । इति शब्दरत्नावली ॥