शब्दकल्पद्रुमः
वौ(बौ)द्धं || क्ली (बुद्धेन कृतम् । वुद्ध + अण् ।)
वुद्ध- कृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्रकारैः खण्डितं अतएवाग्राह्यम् । जिनधर्म्मः । यथा, “ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥ गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः । जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥ वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥” इति मात्स्ये सोमवंशानुकीर्त्तनं नाम २४ अः ॥ बुद्धसम्बन्धिनि, त्रि ॥