वाचस्पत्यम्
वौषट् || अव्य० वह—डौषट् । देवोद्देशेन हविस्त्यागे अमरः ।
शब्दकल्पद्रुमः
वौषट् || व्य, (उह्यतेऽनेन हविरिति । वह + बाहुल- कात् डौषट् ।)
देवहविर्द्दानमन्त्रः । तत्पर्य्यायः । स्वाहा २ श्रौषट् ३ वषट् ४ स्वधा ५ । इत्य- मरः ॥ एते पञ्च शब्दा देवहविर्द्दाने वह्रि- मुखाहुतौ वर्त्तन्ते । देवाय हविषो दानं देव- हविर्द्दानम् । तत्र देवा इन्द्रादयः अत्र पि तरो देवता इति स्मृतेस्तेऽपि देवा हविर्दान इत्यनेन एते मन्त्रा इति सूचितम् । अमन्त्रत्वे स्वाहयेव हविर्भुजमिति रघुः । स्वाहाव्ययं मन्त्रभेदे स्त्रियां स्वाहाग्नियोषितीति कोषान्तरम् । स्वाहा दन्त्यादि । श्रौषट् तालव्यादि मूर्द्धन्यमध्यम् । वौषट् वषट्द्वयं मूर्द्धन्यमध्यम् । स्वधा दन्त्यादि । इन्द्राय स्वाहा । इत्यादिप्रयोगः । इति भरतः ॥