वाचस्पत्यम्
व्यङ्ग || न० विगतं विकलं वाङ्गं प्रादि कर्म० । १ विकलाङ्गे विग- तमङ्गं यस्य । २ अङ्गहीने त्रि० ३ भेके पुंस्त्री० मेदि० स्त्रियां ङीष् । ४ मुखरोगभेदे तन्निदानादि माधवनिदाने उक्तं यथा “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत्” ।
शब्दकल्पद्रुमः
व्यङ्गः || पुं, (विकृतानि अङ्गानि यस्य ।)
भेकः । इति मेदिनी ॥ (विकृतानि अङ्गानि यस्मात् ।)
मुखरोगविशेषः । तस्य लक्षणं यथा, —
“क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥” इति माधवकरः ॥ * ॥
तस्य चिकित्सा । “वटाङ्कुरा मसूराश्च प्रलेपाद्ब्यङ्गनाशनः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ अथवा लेपनं शस्तं शशस्य रुधिरेण च । जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ॥ वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् । कुष्ठं कालीयकं लोध्रं एभिर्ल्लेपं प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (त्रि, विगतं अङ्गं यस्य ।)
हीनाङ्गः । इति मेदिनी ॥ (यथा, महाभारते । १ । १६ । २० । “यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ॥”)