वाचस्पत्यम्
व्यच || व्याजे अक० सम्बन्धे सक० तु० कु० पर० सेट् । विचति अविचीत् विध्याच विविचतुः व्यचाः ।
शब्दकल्पद्रुमः
व्यच || शि व्याजे । सम्बन्धे । इति कविकल्पद्रुमः ॥ (तुदा०-कुटा०-पर०-सक०-सेट् ।)
व्याजश्छलः । श, विचति सतं खलः । छलयति इत्यर्थः । अविचीत् विव्याच । इति दुर्गादासः ॥