शब्दकल्पद्रुमः
व्यजः || पुं, (व्यजत्यनेनेति । वि + अज + “गोचर- सञ्चरेति ।” ३ । ३ । ११९ । इति घञ् । निपा- तनादजेर्व्यघञपोरिति वीभावो न भवति ।) व्यजनम् । विपूर्व्वाजधातोरल्प्रत्ययेन निष्पन्न- मिदम् ॥