वाचस्पत्यम्
व्यजन || न० वि + अज—ल्युट् न व्यादेशः । तालवृन्तके अमरः । “मूर्च्छादाहतृषाधर्मश्रमनुत् व्यजनानिलः । तालव्य- जनजो वायुस्त्रिदोषशमनो लघुः । वंशव्यजनजो वायु रूक्षाष्णो वातपित्तकृत् । वेत्रवस्त्रकेकिपुच्छव्यजनोत्थ- स्त्रिदोषहृत् । बालव्यजनजो वायुर्मक्षिकादिनिवारकः । तेजस्करोऽसौ विज्ञेयो विद्वद्भिर्भिषजां वरैः” राजव० ।
शब्दकल्पद्रुमः
व्यजनं || क्ली (व्यजत्यनेनेति । वि + अज + ल्युट् । ‘वा यौ ।’ २ । ४ । ५७ । इति पक्षे वीभावो नास्ति ।)
तालवृन्तकम् । इत्यमरः ॥ पाखा इति भाषा ॥ (यथा, ऋतुसंहारे । १ । ८ । “सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैः प्रबुध्यते सुप्त इवाद्य मन्मथः ॥”)
अस्य सामान्यगुणः । मूर्च्छादाहतृष्णाघर्म्म- श्रमनाशित्वम् ॥ तालव्यजनगुणः । त्रिदोषशम- नत्वम् । लघुत्वञ्च । वंशव्यजनगुणः । रूक्ष- त्वम् । उष्णत्वम् । वायुपित्तकारित्वञ्च ॥ वेत्र- वस्त्रमयूरपुच्छव्यजनगुणः । त्रिदोषनाशित्वम् ॥ बालव्यजनगुणः । तेजस्करत्वम् । मक्षिकादि- निवारकत्वञ्च । इति राजवल्लभः ॥